Monday, May 28, 2018

Sanskrit subhashitam

*हरि ॐ तत्सत्!  सुप्रभातम्।*
*भगवत्कृपया भवतां सर्वेषां *परमकल्याणं भूयात्सर्वदा।*
🕉🕉🕉🙏🙏🙏🚩🚩🚩

*विचारयन्तु सर्वे विप्रजनाः --*

विप्रो वृक्षो मूलकान्यत्र संध्या वेदाः शाखा धर्मकर्मणि पत्रम्।
तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा॥

*🌄🌄 अस्माकं ऋषिगणाः उपदिशन्ति यत् ब्राह्मणरूपी-वृक्षस्य मूलं संध्या अस्ति । चत्वारः वेदाः चतस्रः शाखाः सन्ति । धर्मः कर्म च पत्राणि सन्ति । अतः मूलं यत्नपूर्वकं रक्षणीयम् । यतः मूलस्य छिन्ने भिन्ने सति वृक्षशाखादीनां किञ्चित् अपि अस्तित्त्वं न अवशिष्यते ।🌄🌄*

🌷हमारे ऋषिगण उपदेशित करते हैं, ब्राह्मणरूपी वृक्ष का मूल संध्या है, चारों वेद चार शाखायें हैं, धर्म और कर्म पत्ते हैं। अतः मूल की रक्षा यत्नपूर्वक करनी चाहिये, क्योंकि मूल के छिन्न-भिन्न हो जाने से वृक्ष और शाखादि का कोई भी अस्तित्व शेष नहीं रहता है।

*संध्याहीनोSशुचिनिर्त्यमनर्हः सर्वकर्मसु।*
*यदन्येत् कुरुते कर्म न तस्य फलभाग्भवेत्॥*

_*🌄🌄ये विप्राः सन्ध्यादीनि कर्माणि न कुर्वन्ति ते सर्वदा अपवित्राः वर्तन्ते । तान् च कस्यचित् अपि पुण्यकर्मणः करणेन फलप्राप्तिः न भवति ।🌄🌄*_

*(जो द्विज संध्यादि नहीं करते हैं, वे सदा अपवित्र रहते हैं, तथा उन्हें किसी भी पुण्यकर्म के करने का फल प्राप्त नहीं होता है।)*

*_🌄🌄सन्ध्या-गायत्रीं प्रति समुपेक्षितदृष्टिः कदापि कल्याणप्रदा न भवतीति विचार्य प्रतिदिनं सन्ध्यामवश्यमेव कुर्यात्।_*
*(( सन्ध्या-गायत्री के प्रति उपेक्षा करना कभी भी कल्याणकारी नहीं होता है ऐसा विचार करके प्रतिदिन संध्या अवश्य ही करें ।))🌄🌄*

*॥ सत्यसनातनधर्मो विजयतेतराम्॥*
🚩🚩🚩🇮🇳🇮🇳🇮🇳🚩🚩🚩

No comments:

Post a Comment