Thursday, May 31, 2018

Hanuman stotra in sanskrit

🌞सुप्रभात🌞
प्रातः स्मरामि हनुमन्तमनन्तवीर्यं श्रीरामचन्द्रचरणाम्बुजचञ्चरीकम् ।
लङ्कापुरीदहननन्दितदेववृन्दं सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥ १॥
 
माध्यं नमामि वृजिनार्णवतारणैक- धीरं शरण्यमुदितानुपमप्रभावम् ।
सीताऽऽधिसिन्धुपरिशोषणकर्मदक्षं वन्दारुकल्पतरुमव्ययमाञ्जनेयम् ॥ २॥
 
सायं भजामि शरणोपसृताखिलार्ति- पुञ्जप्रणाशनविधौ प्रथितप्रतापम् ।
अक्षान्तकं सकलराक्षसवंशधूम- केतुं प्रमोदितविदेहसुतं दयालुम् ॥ ३॥ 
🙏🙏🙏

No comments:

Post a Comment