Friday, April 6, 2018

Sanskrit Subhashitam

🖌सुभाषित-विज्ञानम् - 38📚
अयं निजः परो वेति

मूलम्- 
अयं निजः परो वेति गणना लघुचेतसाम् । 
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ 

पदविभागः- 
अयं निजः परः वा इति गणना लघुचेतसाम् । उदारचरितानां तु वसुधा एव कुटुम्बकम् ॥ 

अन्वयः- 
अयं निजः परो वा इति लघुचेतसाम् गणना (भवति)। उदारचरितानां तु वसुधा एव कुटुम्बकम् (भवति)। 

प्रतिपदार्थः- 
अयं = एषः ; This person (masculine pronoun)
निजः = स्वः ; one's own, belongs to oneself
परः वा = अस्वः, अन्यः ; other, non-related
इति = एवं ; thus
लघुचेतसाम् = अल्पचित्तानां, अधमानां ; of the low-minded people
गणना = मतम् ; counting, considering, (here) believing
उदारचरितानां तु = उत्तमजनानां तु ; of the noble minded, great characters, but
वसुधा एव = लोकः एव ; earth, (here) world 
कुटुम्बकम् = स्वस्य गृहजनाः ; family

तात्पर्यम्- 
एषः मम जनः, एषः अन्यः इति नीचजनाः चिन्तयन्ति। ये महापुरुषाः तेषां तु सम्पूर्णा भूमिः एव स्वस्य गृहमिव भवति।

He is mine, he is another, not mine - such are thoughts of narrow minded people. For the noble minded the whole world is a family.

प्रश्नाः- 
1. लघुचेतसां कीदृशी गणना?
2. उदारचरितानां कीदृशी गणना?
3. 'वसुधैव' इत्यत्र सन्धिः विभज्यताम्।
4. 'उदारचरितानां' इत्यत्र समासविग्रहं वदत?
5. 'लघुचेतसाम्' इत्यस्य पदविश्लेषणं वदत?
6. उदारचरितानां तु ------ ------। (रिक्तस्थानं पूरयत।)✅