Thursday, April 12, 2018

Present state of Sanskrit -study

एष: प्रसङ्गो भगवत: श्रीरामस्य वनगमनावसरस्य वर्तते ।राम: पितुराज्ञया चतुर्दशवर्षेभ्यो लक्ष्मणेन सीतया च वनं गच्छन्नासीत् ।यदा वने किञ्चिद्दूरं गतवान् ।तदा राम: किमपि अस्पष्टध्वनिं श्रुतवान् ।लक्ष्मणं पृष्टवान् यत् त्वमपि किमपि श्रृणोषि किम् ? लक्ष्मणेनोक्तं नैव ।पुन: किञ्चिद्दूरं गच्छति ।पुन: सैव ध्वनि: ।राम: लक्ष्मणमादिष्टवान् साम्प्रतं ध्यानेन श्रृणुहि तथा कुत एषा ध्वनिरागच्छतीति अन्विष ।लक्ष्मणेन यदा अन्वेषणमारब्धम् तदा ज्ञातम् यदेको जीवो रोदिति ।लक्ष्मण: रामस्याज्ञया तं जीवं पृष्टवान् । किमर्थं रोदिषि त्वम्?तदा जीवेनोक्तम् ।अहमेक: लघुजीव:।यदा कश्चिज्जन: ममोपरिष्टाद्गच्छति स्म तदाSहं रामस्य नाम स्मृत्वा स्वकष्टं विस्मरामि स्म ।परमद्य साक्षात् राम एव ममोपरिष्टाद् गच्छति ‌।साम्प्रतं कस्य नाम स्मृत्वा स्वदु:खं विस्मरामि इति चिन्त्वैव रोदिमि ।
               मित्राणि! तादृशी एव स्थिति: साम्प्रतं संस्कृतमातु: वर्तते । सदा आकारयति यद्यदा अन्ये अन्या: भाषा: प्रयुञ्जन्ति स्म ।तदाSहम् अस्मत्पुत्राणां संस्कृतज्ञानां नामानि स्मृत्वा स्वदु:खं विस्मरामि स्म ।परमद्यत्वे संस्कृतज्ञा एव अन्या: संस्कृतेतरा:  भाषा:  प्रयुञ्जन्ति । साम्प्रतमहं कस्य कस्या: वा नाम स्मरामि । 
यदि संस्कृतमातु: दु:खभञ्जनं वाञ्छन्ति तर्हि आयान्तु अस्मत्सदृशै: युवभि:, संस्कृतसेवकै:, सुरभारतीसमुपासकै: ,सत्पुत्रैश्च नितरां संस्कृतस्य  भाषणं पठनं लेखनं वा विधातव्यमिति मे करबद्धा प्रार्थना ।
👏👏👏👏👏👏👏
              तदर्थम् आगच्छन्तु मिलामो वयमेकत्रीभूय "सुरभारतीसमुपासका:"इति संस्कृतपरिवारेSस्मिन् ।
*स्वागताभिलाषिण:*
*सुरभारतीसमुपासका:*
#स्वच्छभाषाभियानम्
#स्वच्छभाषाभियानम्
#दीपकवात्स्य:

No comments:

Post a Comment