नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥
कश्चन अचिन्तयत् - 'मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः' इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् ।
अतः सः विषादेन वदति - 'मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः' इति ।
'मनश्शब्दः' नपुंसकः अस्ति चेत् 'मनः' अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।
- अन्तर्जालात्
No comments:
Post a Comment