Wednesday, February 7, 2018

Nirvikalpa Samadhi - sanskrit

Courtesy: Sri.Praveen Bhat 

निर्विकल्पसमाधिः।

केचिदाहुः वेदान्ते यो निर्विकल्पकसमाधिः सः योगसमाधेः भिन्न इति। कस्मिंश्चिद्विषये शब्दे वस्तुनि वा सः समाधिः शक्यते। यथा ध्यानधारणसमाधिविषयमनु योगसमाधिफलं स्यात्, तथा अत्र वेदान्तेऽपि समाधेः फलं विषयमनु शक्यते इति युक्तमेव। योगशास्त्रे समाधिरित्युक्ते सामान्येन योगस्य लक्षणं नाम चित्तवृत्तिनिरोध इति प्रसिद्धः। वृत्तिशून्यता वेदान्तस्य लक्ष्यं नास्ति, अतः निर्विकल्पसमाधिर्वृत्तिरूप एव भवति, न तु वृत्तिरहित इति केषामभिप्रायः।

अन्येषां निर्विकल्पसमाधौ वृत्तयः सन्ति वा न सन्ति वा इति संशयः क्रियते। तस्य समाधानं तु विविधा। केचिद्वदन्ति-- यो योगसमाधिर्निर्बीजोऽथवा निर्वितर्कः सः वृत्तिरहितः किंतु यो वेदान्तसमाधिः सः वृत्तिसहित इति, तदसत्। यत्र निर्विकल्पसमाधौ त्रिपुटिभेदो नास्ति तत्र वृत्तिः कथं भवितुं शक्यते। अपिच तस्मिन्पक्षे  सविकल्पनिर्विकल्पयोर्भेदोऽपि न सिध्यति। स एव सविकल्पो गहनस्थः निर्विकल्पो भवति इत्यप्यनाधारः। योगवेदान्तसमाध्योः ध्यानधारणवस्तुनोः भेदौ एव न तु वृत्त्यस्तित्वभेदौ इति युक्तम्। योगशास्त्रेषु या या विभूतिरथवा यद्यत्फलं दृश्यते तत्तद्विषयभेदेन तेन च वृत्तिभेदेनैव न तु समाधिभेदेन। किंचाविद्यानिवारणं महावाक्यजस्य ज्ञानस्य फलं यद्यपि निर्विल्पेन न सम्भवति चेत्, सविकल्पेन तु सम्भवत्येव यतः सः सविकल्पो वृत्तिसहितः। तदेव श्रीदत्तात्रेयेण परशुरामायोक्तम्

 निवृत्तिस्तस्य तु ज्ञानादेवेति प्रविभावितम्।
 तज्ज्ञानं सविकल्पं स्यादज्ञानस्य प्रबाधनम्॥१७.२६॥
 निर्विकल्पकविज्ञानादज्ञानं न निवर्तते।
 निर्विकल्पकविज्ञानं केनचिन्न विरुद्ध्यते॥१७.२७॥

तदविद्यानिवृत्तिरूपेण सविकल्पस्य विज्ञानस्य दृष्टफलम्। ज्ञानोत्पत्तेः पश्चात् यत्समाधिसाधनं तत्सर्वं निदिध्यासनम्।
श्रवणमननपूर्वकं निदिध्यासनं महावाक्यविषयम्। निदिध्यासने यदा अखण्डाकारवृत्तिर्भवति, तदा वृत्तिरविद्यानाशं कृत्वा स्वतः क्षयमापद्यते। अनन्तरं च निर्विकपकसमाधेः संस्कारशेष एव वर्तते। वृत्तिक्षयवृत्तिनिरोधयोर्मध्ये को भेदः? अन्यो वेदान्तवृत्तिरन्यो योगवृत्तिरिति न वक्तव्यम्। तयोः वृत्तिरूपत्वात्। ननु फलभेदः कथं सिध्यतीति उच्यते। यद्यपि वृत्तित्वर्भेदो नास्ति, तर्हि संस्कारविशेषौ वर्तेते। अतो द्वयोर्फलभेदः। अदृष्टफलमपि सविकल्पस्य निर्विलपवद्धर्मरूपम्। तदेव निर्विकल्पे धर्ममेघम्। अदृष्टं वासनाक्षयञ्च मनोनाशञ्च प्रति नयति अतः निष्ठां ददाति।

ननु योगश्चित्तवृत्तिनिरोध इत्युक्तम्। विद्यारण्यैस्तु

 वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः ।
 स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात्॥१.५६॥

इत्युक्तम्। तत्र योगवेदान्तसमाधयोर्भेदस्स्पष्टम्।

सत्यमेतदुक्तं किन्तु भेदो नोक्तम्। यो भेदो योगशास्त्रे सविकल्पनिर्विकल्पयोर्मध्ये, स एव अत्रापि वेदान्तानाम्। अन्ये वृत्तिनिरोधोऽन्ये निरोध इति न। किंच निद्रायां यद्यपि वृत्तिनिरोधो वेदान्ते अङ्गीकृतस्तर्हि सूक्ष्मवृत्तिर्बीजरूपे मनसि वर्ततैव। निद्रापि योगशास्त्रे वृत्तिरेव। सापि सूक्ष्मा। अस्तु तर्हि निर्भेदो योगवेदान्तसमाध्योर्तेन ज्ञानेन एव मोक्ष इति सिधान्तहानिर्न भवति।


श्रीत्रिपुरायै अर्पणमस्तु।
ॐ तत् सत्।
प्रवीणभट्टः।

No comments:

Post a Comment