Thursday, February 1, 2018

Karna -Sanskrit essay

*स्वर्वाणीप्रकाशः*
 (वाट्साप्प् सदः)

🌸शुक्रवासरः (22-12-17) चतुर्थी🌷
✍प्रस्तावविषयः-- कर्णः (महाभारते)

दानशूरः कर्णः।महापुरुषः कर्ण महाभारते विख्यातकथापात्रमस्ति।पूर्वं दुर्वासमुनिना
कुन्तीदेव्यै इष्टदेवस्मरणया देवांशपुत्रोत्पादनाय वरमेकं प्रदत्तम्।विवाहात् पूर्वमेव तरुण्या कुन्त्या सूर्यस्मरणया वरशक्तिपरिक्षा कृता तदानीं तेजोमयः कर्णः जातः। अपवादभयात् तया पुत्रः नद्यां त्यक्तः। नदीप्रवाहेण शिशुः विदूरं गत्वा धृतराष्ट्रसारथेः  अधिरथस्य निकटं जगाम। तेन शिशुः पत्न्यै राधायै समर्पितः। राधा स्वपुत्रमिव सन्तोषेण तं शिशुं पोषितवती। एवं कौन्तेयः कर्णः लोके राधेय इति प्रसिद्धो जातः। कर्णः बाल्ये एव महान् पराक्रमी दानशूरश्च बभूव। लोकदृष्ट्या 
सूर्यपुत्र: कर्णः सूतपुत्रेवासिद् । पाण्डवानां मनसि कर्ण तिरस्कृत एवासीद्।  कर्णः कालान्तरे दुर्योधनस्य प्रियमित्रमभवत्। विषमावस्थायां दुर्योधनेन कर्ण आश्वसितो जातः।  अङ्गराज्यस्य अधिकारं दत्त्वा दुर्योधनः कर्णाय स्वमैत्रीं प्रकटितवान् एतेन कर्णोऽपि आजीवनकृतज्ञो जातः।राधेयः दुर्योधनसहवर्त्तित्वेन अधर्मपक्षे स्थातुं निर्बन्धितो जातः। तथापि कर्णस्य महिमा त्रिलोकष्वपि प्रसृता जाता दानशूरः महावीरः करुणालुः अपारसेवकः सत्यसन्धः निस्वार्थः धीरः एते कर्णस्य विशेषाः बभूवुः। जन्मतः कवचकुण्डलविभूषितः कर्ण अपराजितोऽप्यासीद्।  एतत् ज्ञत्वा निजपुत्रार्जुनहितार्थं देवेन्द्रः कर्णस्य कवचकुण्डलं दानरूपेण वशीकर्तुं निश्चयं कृतवान्
दिव्यज्ञानेन सूर्यभगवान् इन्द्रस्य स्वार्थचिन्तां ज्ञातवान्। सूर्यः ब्राह्मणवेषं दृत्वा कर्णाय स्वप्नदर्शनं दत्त्वा तस्य जन्मरहस्यं कवचकुण्डलशक्तिम् एवं इन्द्रस्य कुपद्धतिं च बोधितवान्। स्ववचनलघनं तथा दानशीलं च त्यक्तुं न शक्नोमि इत्येवासीत् तदानीं कर्णस्योत्तरम्। तर्हि अर्जुनवधार्थम् इन्द्रस्य एकपुरुषघातिनी इति शूलस्य सम्पादनं चातुर्येण कर्तुम् उपदिष्ट्वा सूर्य अन्तर्धानं चकार।
पश्चात् इन्द्रकर्णयोः सम्भाषणं जातम्। शूलायुधेनापि अर्जुनवधं न शक्यते यतोऽर्जुनः कृष्णेन सुरक्षित इति इन्द्रवचनं श्रुत्वाऽपि स्थितधीः कर्णः इन्द्रात् शूलायुधं स्वीकृत्य अपारवेदनां सहन् शरीरात् कवचकुण्डलं कर्तयित्वा प्रदत्तवान्।कर्णस्य धैर्यं दृष्ट्वा देवाः ऋषयश्च तं वैकर्तन इति सम्बोधयन्  प्रकीर्तितवन्तः। यद्यपि इन्द्रेण वक्रबुद्ध्या कार्यसिद्धिः प्राप्ता तथापि धीराचरणेन कर्णस्य कीर्तिः सर्वत्र प्रसृता जाता।
कुन्त्याः कर्मफलमेव कर्णस्य दुरवस्थायाः कारणं तथापि अर्जुनमेव युद्धे हनिष्यामि इत्युक्त्वा कुन्तीदेव्यामपि कर्णः स्वस्य दयां प्रदर्शितवान्।अथैकदा हस्तिनापुरम् आगत्य पाण्डवहितं कृत्वा राज्यभरणार्थं कृष्णः कर्णं प्रेरितवान् तथापि कृष्णवचनं निराकृत्य आपत्काले मित्रस्य सहाय्यमेव परमधर्म इत्युक्त्वा भगवतः पुरतोऽपि सत्यसन्धतां दर्शितवान्।। 

उपासितास्ते राधेय ब्राह्मणा वेदपारगाः।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥

त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु 
सूक्ष्मेषु परिनिष्ठितः ॥

‌इत्येवं प्रोवाच भगवान् कृष्णः। 

कुरुक्षेत्रे महारथस्य कर्णस्य शौर्यम् अत्यद्भुतमासीत्। 

कर्णस्य पराक्रमेण अर्जुनः निरन्तरं श्रान्तो भवति स्म। कर्णस्य अस्त्रेभ्य अनेकवारं कृष्णानुग्रहादेव पार्थः रक्षितः।यदा कर्णः निरायुधो भूत्वा रथचक्रसोद्धारणं चकार तदैव अर्जुन आञ्जलिकास्त्रप्रयोगं कृत्वा कर्णस्य शिरश्छेदं कृतवान्। 
कुरुक्षेत्रयुद्धस्य १७ दिने कर्णः वीरगतिं प्राप्तवान्।
युद्धविरामसमये आक्रमणं नीतिपूर्वकं नासीत् इत्येव बहुमतम्। मरणेऽपि कर्णस्येव विजयप्राप्तिः ननु । सदा पूर्वशापानां प्रभावेण कर्णः पीडितो भवति स्म। परशुरामशापाद् अत्यावश्यसमये अस्त्रविद्यानैपुण्यं विस्मरति स्म। भूम्याः तथा ब्राह्मणस्य शापादेव रथः रणाङ्गणे स्थगितः जातः। 

कर्णवधोत्तरं पाण्डवाः निजस्थितिं ज्ञात्वा अतीवदुःखिता बभूवुः।।

कर्णस्य जीवनम् अस्मान् बोधयति यद् 
यतो धर्मस्ततो जय :।।


🙏🙏🙏🙏

~ सुनीश् नम्बूतिरि

No comments:

Post a Comment