Tuesday, February 13, 2018

Grass -Sanskrit spiritual story

कथा - सामान्यज्ञानस्य औचित्यम्।
पण्डितः एकः एवं चिन्तितवान् , नगरेषु सामान्यतया सर्वे जनाः पठितुं, लिखितुं जानन्ति। अतः अहं ग्रामं गत्वा कृषकेभ्यः, गोपालकेभ्यः अन्य मन्दमतीनां कृते मम विचारधारा बोधयामि चेत् , ते अपि चतुराः भवन्ति इति विचिन्त्य लघु ग्रामं गतवान्।
अग्रिम दिने मम उपन्यासः अस्ति सर्वे आगच्छन्तु इति सर्वेषां उक्वान्।
अग्रिम दिने उत्साहेन उपन्यासं दातुं सः आगतः। परन्तु स्थले कोsपि न आसन्। 
सः बहु जनाः आगच्छन्ति इति निरीक्षितः आसीत् । 
अल्पसमयानन्तरं एकः गोपालकः आगत्य तस्य पुरतः उपविष्टः। 
सः पण्डितः अन्येsपि आगच्छन्तु इति उपन्यासं आरब्धं न कृतवान्।
एतद्दृष्ट्वा सः गोपालकः अवदत् - "अहं धेनून्  पालयामि। यदि एकः धेनुः आगच्छति चेदपि तृणं ददामि इति।
एतद् श्रुत्वा सः पण्डितः, एषः मम कृते अवदत् इति विचिन्त्य , अस्तु भवान् कृते अद्य अहं उपन्यासं करोमि। परन्तु अन्ते किं ज्ञातवानिति मम समीपे वक्तव्यमिति उक्त्वा , एक घण्टा पर्यन्तं उपन्यासं कृतवान्।
अन्ते 'किं ज्ञातवान्?' इति तं गोपालकं पृष्टवान्।
सः गम्भीरस्वरेण उक्तवान् - भो पण्डित, अहं धेनून् पालयामि। एकः धेनुः आगच्छति चेदपि तृणं ददामि परन्तु एककाले सर्वान् तृणान् तमेव  न ददामि इत्युक्त्वा गतः।
पण्डितः लज्जया उपविष्टः।

No comments:

Post a Comment