Courtesy: Smt bala chiraavoori
शनिवासरे सूर्योदयसमये एव दुर्मुहूर्तः प्रारप्स्यतीति मम बाल्ये मत्पितामही ब्राह्मीमुहूर्ते पञ्चवादनसमये एव अस्मान् उत्थापयितुं अतीव प्रयत्नं करोति स्म।अधुनापि शनिवसरे प्रातःकाले तामेव स्मरामः। प्रस्थानविषयेऽपि शनिवासरे सूर्योदयात्पूर्वं वा सूर्योदयादनन्तरं वा एव प्रस्थास्यामः।
*मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।*
*अग्रतः शिवरूपाय वृक्षराजाय ते नमः।।*
बाल्ये मत्गृहात् सन्निकटे एव अश्वत्थनिम्बवृक्षौ उपस्थितौ अभवताम्। रात्रौ तस्मिन् वृक्षे प्रेतसञ्चारं करोति इति प्रथापि वर्तते स्म। यथा वयं तस्मिन् ग्रामे आवासार्थं प्रविष्टामः तत् प्रभृति प्रति शनिवासरेऽपि मत्पितरौ , पितृष्वसापि पूजां कुर्वन्ति स्म। अश्वत्थनिम्बवृक्षयोः कल्याणेन क्षेमं भवति । तन्मूले ब्रह्मा, मध्ये महाविष्णुः, ऊर्ध्वभागे ईश्वरः स्थिताः इति शनिवासरे विशेषतः श्रावणशनिवासरे यदि पूजां कुर्मश्चेत् श्रेयस्करं भविष्तीति मत्पितृचरणाः कथयन्ति स्म। अधुनापि यत्र कुत्रापि गमनकाले वृक्षराजं पश्यामः चेत् एतच्छ्लोकमेव पठामः।
अस्माकं आन्ध्रप्रान्तीयाः शनिवासरः तिरुपतिवेङ्कटेश्वराय अत्यन्तप्रीतिकरमिति स्वाभीष्ठफलप्राप्त्यर्थं एकभुक्तेन अथवा पूर्णोपवासेन बालाजीमर्चयन्ति।
शनिवासरे तैलाभ्यङ्गनेन आरोग्यता सिद्ध्यतीति धर्मशास्त्रग्रन्थे पठितम्। तदेवानुसरामः वयं सर्वेऽपि। शनिवासरे कृष्णवर्णवस्त्रधरणं निषेधो भवति। किन्तु अय्यप्पभक्ताः स्वामिनः कृष्णवस्त्रं प्रीतिकरमिति दीक्षाकाले तदेव धारयन्ति।
शनिवासरे लवणं, त्वक् सम्बन्धित वस्तवः, तैलं, तिलाः, अयःपरिकराः क्रेतुं निषेधाः भवन्ति।
🙏🌷बाला...✍
No comments:
Post a Comment