courtesy:Sri.Saravanan
*श्रीमद्भगवद्गीता*
_अथ प्रथमोsध्याय:_
_अर्जुनविषादयोग:_
*🔔मूल श्लोकः 🔔*
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोsभिभवत्युत ॥ ५०॥
*🏹पदच्छेदः........*
कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: धर्मे नष्टे कुलं कृत्स्नम् अधर्मा: अभिभवति उत
*🌹पदपरिचयः......🌹*
कुलक्षये - अकार. पु. स एक
प्रणश्यन्ति - लट् प्रपु बहु
कुलधर्मा: - अकार. पु. प्र बहु
सनातना: - अकार. पु. प्र बहु
धर्मे - अकार. पु. स एक
नष्टे - अकार. पु. स एक
कुलं - अकार. नपु. द्वि एक
कृत्स्नम् - अकार. नपु. द्वि एक
अधर्म: - अकार. पु. प्र एक
अभिभवति - लट् प्रपु एक
उत - अव्ययम्
*🌷पदार्थः...... 🌷*
कुलक्षये - वंशनाशे
प्रणश्यन्ति - क्षीयन्ते
कुलधर्मा: - कुलाचारा:
सनातना: -पुरातना
धर्मे - सनातनधर्मे
नष्टे - क्षीणे
कुलं - वंशम्
कृत्स्नम् - सर्वं
अधर्म: - अनाचार:
अभिभवति -व्याप्नोति
उत - अपि
*🌻अन्वयः 🌻*
कुलक्षये सनातना: कुलधर्मा:प्रणश्यन्ति ।
धर्मे नष्टे कृत्स्नम् कुलं उत अधर्म: अभिभवति ।
*📢 तात्पर्यम्......*
अयं श्लोक: श्रिमद्भगवद्गीतायाम् प्रथमोsध्याये चत्वारिंशत्तम: श्लोक: । अर्जुन: एवम् अवदत् ।
यदि कुलानि नश्यन्ति तर्हि सनातना: कुलधर्मा: नश्यन्ति । यदि धर्मः नष्ट : भवति तर्हि कुलं सर्वंम् अधर्मः एव व्याप्नोति ।
*🌻व्याकरणम्.......*
▶सन्धिः
कुलम् + कृत्स्नम् - अनुस्वारसन्धि:
अधर्म: + अभिभवति - विसर्ग उकार: पूर्वरूपसन्धि
अभिभवति + उत - यण् सन्धि:
▶ समासः
कुलक्षये - कुलस्य क्षये - तस्मिन षष्ठितत्पुरुष:
कुलधर्मा: - कुलस्य धर्मा:- तस्मिन षष्ठितत्पुरुष:
अधर्म: - न धर्म: - नञ् तत्पुरुष:
▶ कृदन्तः
नष्ट: - नश् + क्त प्रत्यय:
🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐
☸☸ *श्री कृष्णार्पनमस्तु* ☸☸
~ *✍ शरवण:*
*श्रीमद्भगवद्गीता* 🕉
_अथ प्रथमोsध्याय:_
_अर्जुनविषादयोग:_
*🔔मूल श्लोकः 🔔*
*अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: ।*
*स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर:॥૪41॥*
*🏹पदच्छेदः........*
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रिय: स्त्रीषु दुष्टासु वार्ष्णेय
जायते वर्णसङ्कर:
*🌹पदपरिचयः......🌹*
धर्माभिभवात् - अकार. पु. प. एक
कृष्ण - अकार. सं प्र
प्रदुष्यन्ति - लट् प्रपु बहु
कुलस्त्रिय: - इकार. स्त्री प्र बहु
स्त्रीषु - इकार. स्त्री. स. बहु
दुष्टासु - अाकार. स्त्री स. बहु
वार्ष्णेय - अकार. पु. सं प्र
जायते - लट् प्रपु एक
वर्णसङ्कर: - अकार. पु. प्र एक
*🌷पदार्थः...... 🌷*
अधर्माभिभवात् - अधर्मवर्धनात्
कृष्ण - वासुदेव
प्रदुष्यन्ति - कलुषयन्ति
कुलस्त्रिय: - वंशस्त्रिय:
स्त्रीषु - नारीषु
दुष्टासु - भ्रष्टासु
वार्ष्णेय - कृष्ण
जायते - भवति
वर्णसङ्कर:- वर्णमिश्रणम्
*🌻अन्वयः 🌻*
हे कृष्ण ! अधर्माभिभवात् कुलस्त्रिय: प्रदुष्यन्ति ।
हे वार्ष्णेय ! स्त्रीषु दुष्टासु वर्णसङ्कर: जायते ।
*📢 तात्पर्यम्......*
अयं श्लोक: श्रीमद्भगवद्गीतायां प्रथमोsध्याये एकचत्वारिंशत्तम:: श्लोक: ।
अर्जुन: स्वबान्धवान् हन्तुं न ऐच्छत् । अत: स: एवम् अवदत्
हे कृष्ण ! अधर्माभिभवात् कुलस्त्रिय: प्रदुष्यन्ति ।
हे वार्ष्णेय ! स्त्रीषु दुष्टासु वर्णसङ्कर: जायते ।
*🌻व्याकरणम्.......*
▶ समासः
अधर्म: - न धर्म: - नञ् तत्पुरुष:
अधर्माभिभवात् - अधर्मस्य अभिभव: षष्ठी तत्पुरुष:
कुलस्त्रय: - कुलस्य स्त्रय: षष्ठी तत्पुरुष:
वर्णसङ्कर:वर्णस्य सङ्कर: षष्ठी तत्पुरुष:
▶ तद्धितान्तः
वार्ष्णेय: - वृष्णे: गोत्रापत्यं पुमान्
🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐
☸☸ *श्री कृष्णार्पनमस्तु* ☸☸
~ *✍ शरवण:*
No comments:
Post a Comment