Friday, January 19, 2018

At a bus stop- Conversation in simple sanskrit

सरलसम्भाषणम् : लोकयानस्थाने

रमेश: - क्षम्यतां भोः|समयः कः? Excuse me sir, what time is it?

शरवणः - सपादचतुर्वादनम् । Quarter past four O' clock.

रमेश: - मैलापूर् यानस्य का सड्ख्या ? = Which bus (Route No.) goes to Mylapore ?

शरवणः - मैलापूर् प्रदेशे कुत्र गच्छति भवान् ? Where do you go in Mylapore?

रमेश: - संस्कृतभारत्याः कार्यालयं प्रति गच्छामि । I am going to the Samskrita Bharati office डा. राधाकृष्णन् मार्गे इति मन्ये that is in Dr. Radhakrishnan Road I think.

शरवणः - इदानीं संस्कृतभारत्याः कार्यालयः तत्र नास्ति, Samskrita Bharati office is not there nowadays. नुड्गम्बाक्कम् प्रदेशे स्टेर्लिड्ग्-मार्गसमीपे राम्-स्क्वेर् इति भवनमस्ति । तस्य उपरि त्रितीय अट्टे एव अस्ति । In Nungambaakkam area, near to sterling road there is a 'Rams Square' building, and they are in the third floor.

रमेश: - धन्यवादः Thank you किं सड्ख्याकं यानं तत्र गच्छति ? What is the bus no. that goes there?

शरवणः - ३७-बि ३७-डि अथवा २७-सि तत्र गच्छति 37-B, 37-D or 27-C goes there इदानीं एव यानं एकं गतम् = A bus left just a few minutes ago, महान् जनसम्मर्दः | = Terrible rush. यानं न लब्धम् | = I Missed the bus.

रमेश: - अन्ययानं प्राप्तुं बहुकालं प्रतीक्षा कर्तव्या वा? Do we have to wait for long before we get the next bus? भवान् कुत्र गच्छति ? Where do you go?

शरवणः - सत्वरं यानं आगच्छेत्, Sooner the bus may come अहमपि तत्रैव गच्छामि संस्कृतभारत्याः कार्यालयंप्रति ।I am also going to Samskrita Bharati office.

रमेश: - भवान् किमर्थं संस्कृतभारत्याः कार्यालयंप्रति गच्छति ? For what purpose you are going to Samskrita Bharati office? इदानीं कक्ष्याः अस्ति वा ? = Do you have classes now ?

शरवणः - अहं संस्कृतभारत्याः पूर्णावधिकार्यकर्तारः अस्मि । I am working full-time with Samskrita Bharati.

रमेश: - एवं वा? भवान् अध्यापकः वा? Oh, is that so? Are you a teacher?अथवा भवान् किं कार्यं करोति ? = If not, what do you do in the office ?

शरवणः - संस्कृतस्य प्रचाराय विविधस्थलं प्रतिदिनं गच्छाम्यहम्। I go to different places for popularizing Samskritam. अद्य प्रातः आरभ्य बहु कार्याणि ।= I've had a lot of work since morning.

रमेश: - कार्यालयस्य पिधानं कदा ? = When does your office close ?

शरवणः - चिन्ता मास्तु Don't you worry यानं एकम् आगतं आगच्छतु । A bus has come, pl come.

रमेश: - अहं भवतः पार्श्वे उपविशामि वा? Shall I sit with you in the bus?

शरवणः - अस्तु किञ्चित् समञ्जनं कुर्मः | = Okay, Let us adjust a bit.

रमेश: - धन्यवादः Thanks, अहमेव आवयोः चीटिकाम् क्रीणामि = I only will buy the ticket for both of us.

शरवणः - मास्तु मास्तु (इत्युक्तेऽपि सः न शृणोति | = no, no,( but he doesn't listen to )

शरवणः - भवान् किमर्थं संस्कृतभारत्याः कार्यालयं गच्छति ? For what purpose you are going to Samskrita Bharati office?

रमेश: - ह्यः फलितांशः प्रकटितः | = The result was announced yesterday. अहं प्रथमश्रेण्यां उत्तीर्णः | = I have passed in I class. अस्माकं गणे सर्वेऽपि उत्तीर्णाः | = Everyone passed in our batch.

शरवणः – अस्तु अग्रिमं निस्थानं अस्माकं एव । Okay, the coming stop is ours. शीघ्रम् अवतरतु | = Get off quickly.

रमेश: - धन्यवादः Thanks (अवतरन्) (while alighting) कीदृशः मार्गः अयम् ! | = What a road is this!

शरवणः - आरात्रि वृष्टिः आसीत् | = It rained for the whole night. प्रातः आरभ्य एवमेव वृष्टिः | = It has been raining like this since morning. महती वृष्टिः | = Heavy rain. अतः एव मार्गे क्लेशः अभवत् । Hence the road is damaged.

रमेश: - अस्तु महोदय मार्गं दृष्ट्वा मन्दं गच्छतु | Okay, sir, look at the road carefully and go slowly.

No comments:

Post a Comment