Courtesy: Sri.Ramesh Shukla
।।श्रीमते रामानुजाय नमः।।
अपभ्रंशः : जनार्धनः
--------------------------
अज्ञो वदति विष्णाय ज्ञानी वदति विष्णवे । द्वयोरपि फलं तुल्यं भावग्राही जनार्धनः ॥
योऽपभ्रंशः इति साधीयान् वाक्यांशः। साधुव्यवहितइति समस्तः प्रयोगः श्रेयान्। न तु जनार्धनः, अपि स भगवाञ् जनार्दनः। अर्द हिंसायाम्। अर्दयति इति अर्दनः। नन्द्यादिपाठात् ल्युः। स च पुमान्। युवोरनाकावित्यनादेशः। समुद्रान्तर्वासिनो जननाम्नोऽसुरान् किल भगवाञ् जघान ह। ततः स जनार्दनः। किं वा जननं जनः भावे घञ्। जनं जन्म अर्दयति हन्ति भक्तस्य मुक्तिदत्वादिति जनार्दनः। अर्द गतौ याचने च। अर्दति। हेतुमण्णिच्। अर्दयति गमयति प्रापयति जनान् स्वर्गमिति जनार्दनः। धातोर्याचनार्थे तु, जनैर्लोकैरर्द्यते याच्यते पुरुषार्थानसौ जनार्दनः। इति।
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधु व्यवहितः कश्चिदर्थोऽभिधीयते ॥
–वाक्यपदीये ,1/152
– जय श्रीमन्नारायण।
No comments:
Post a Comment