🌹🌹🌹 *अद्यतन सूत्राणि*🌹🌹🌹
*अथाच्सन्धिः*
इको यणचि॥ (ल१५ = पा६.१.७७)
*इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥*
तस्मिन्निति निर्दिष्टे पूर्वस्य॥ (ल१६ = पा१.१.६६)
*सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥*
स्थानेऽन्तरतमः॥ (ल१७ = पा१.१.५०)
*प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥*
अनचि च॥ (ल१८ = पा८.४.४७)
*अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥*
No comments:
Post a Comment