"धन्वन्तरिः" इति नाम भारतीयसम्प्रदायरचनासु, कथासु चतुःप्रकरकाः श्रूयते।
श्रीमद्भागवते भारते च क्षिरसागरमथनसमये अमृतकलशपाणिना आविर्भूतश्रीमहाविष्णोः रूपेण एको विद्यते।
ब्रह्मवैवर्तपुराणानुसारेण सूर्यभगवतः सन्निकटे आयुर्वेदाध्येता धन्वन्तरिः बभूव। अयं सूर्यस्य षोडशशिष्येषु एकः।
अन्यः काशीराजा दिवोदासः धन्वन्तरिरिति। अयं शुश्रूताय आयुर्वेदं, शस्त्रचिकित्साविषयांश्च अध्यापितवान्। अयं पुराणप्रोक्त धन्वन्तिरित्यपि विश्वासो वर्तते।
विक्रमादित्यसभायां स्थितेषु नवरत्ना इति प्रसिद्धेषु पण्डितप्रतिभामूर्तिषु धन्वन्तरिति नाम्ना अन्यः आसीत्। अयमेव "धन्वन्तरिनिघण्टुः" इति वैद्यपारिभाषिककोशमरचयत् इत्यपि अभिप्रयो वर्तते।
पूर्वस्मिन् काले आयुर्वेद भिषजः" धन्वन्तरिः" इति नाम्ना सत्कारं कुर्वन्ति स्म।
धनुः शल्यं तस्य अन्तं पारं इयर्ति गच्छतीति धन्वन्तरिः- इति धन्वन्तरि शब्दस्य व्युत्पत्तिः भवति। मनसः , शरीरस्य च बाधा जायमानान् शल्यान् अर्थात् दोषान् , रोगान् , अन्तश्शरीरे विकृतीन्, अघातान्, व्रणान्, इत्यदीनां निवारकःधन्वन्तरिरित्युच्ते। पूर्वेद्युः शस्त्रचिकित्साकुशलीनः धान्वन्तरीयाः इति विख्याताः भवन्तिस्म।
श्रीमद्भागवते अष्टमस्कन्धे समुद्रमन्थनसमये आविर्भूतं श्रीमहाविष्णोरशावतारं धन्वन्तरिं एवं वर्ण्यते।
*दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुगेक्षणः।*
*श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः।।*
*पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः।*
*स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः।।*
*अमृतापूर्णकलशं बिभ्रद्वलयभूषितः।*
*स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः।।*-इति।
धन्वन्तरिमन्दिराणि न्यूनान्येव भवन्ति।
तमिलनाडु मध्ये श्रीरङ्गनाथस्वामिनः मन्दिरप्राङ्गणे धन्वन्तर्यालयो वर्तते। तत्र नित्यपूजाः प्रचलन्ति अधुनापि। द्वादशशताब्दे आयुर्वेदभिषजा गरुडवाहनभट्टारेण मूर्तिप्रतिष्ठापनंकृतमिति तत्रत्य शिलाफलके दृश्यते। तत्र मूलिकाकषायं तीर्थरूपेण यच्छन्ति।
🙏 अन्तर्जाले विकीसोर्स् मध्ये संगृह्य अनूद्यते।
बाला...✍
No comments:
Post a Comment