"भवद्भ्य: सर्वेभ्यः दीपावल्या: हार्दिक्यो मांगलिक्यो भावना:।"
'तमसो मा ज्योतिर्गमय'
---------------
"तमसो मा ज्योतिर्गमय" भारते कृतकार्याणाम् अभिव्यक्तिः उत्सवमाध्यमेनेव भवति, तथा च अस्मिन्नेव क्रमे कार्तिकमासस्य अमावस्यायां दीपोत्सवः भवति ।
दीपोत्सवः अस्माकं कृते केवलं प्रकाशस्य पर्व एव नास्ति,अपितु अयं उत्सवः अधर्मोपरि धर्मस्य विजयमपि प्रतिपादयति।
अयं दीपोत्सवः अस्माकं समेषां जीवनं सुख-समृद्धि-सद्भावै: सुतरामालोकयन् राष्ट्रं सर्वतः सर्वथा सर्वदा च समग्रोत्थानम्प्रति सन्नयेत् सहैव सर्वत्र शुभप्रकाशं विकिरेत्।
अस्माकं समारोहेषु दीपोत्सवः विशिष्टः ।
दीपोत्सवः सामान्यतः दीपावली दीवाली वा नाम्ना ज्ञायते ।
प्रकाशोत्सवः अयं बालानां चित्तानि हरति ।
गृहेषु, हट्टेषु, चत्वरेषु, आपणेषु सर्वत्र दीपानां मालाः शोभन्ते ।
कार्तिकमासस्य अमावस्यायां तिथौ प्रतिवर्षं भारतीया इमम् उत्सवं समायोजयन्ति ।
शारदीयः अयम् उत्सवः ।
वर्षायाम् ऋतौ सर्वत्र वर्षायाः प्रभावेण अस्वच्छता. कीटपतंगानां प्रसारश्च भवति ।
यदा शरद् आयाति तदा जनाः स्वगृहं परिसरं च स्वच्छं कुर्वन्ति ।
ते गृहाणि सधया लिम्पन्ति ।
कपाटगवाक्षादीन् रञ्जयन्ति ।
इतस्ततः क्षिप्तम् अपद्रव्यम् अपसारयन्ति ।
सर्वत्र निर्मलता निवसति ।
नवं वस्त्रं मिष्टान्नं च लब्ध्वा बाला मुदिताः भवन्ति ।
ते पटाखविस्फोटं कृत्वा आनन्दमनुभवन्ति ।
जनाः परस्परं शुभकामनां प्रकटयन्ति ।
सर्वत्र बन्धुभावः विराजते ।
रावणवधानन्तरं रामचन्द्रस्य अयोध्यागमने प्रथमः दीपोत्सवः आयोजितः इति जनश्रुतिः ।
तदा प्रभृति वयम् अस्य आयोजनं कुर्मः ।
अस्मिन् पर्वणि जनाः रात्रौ स्व स्वगृहं दीपमालिकया अलङ्कुर्वन्ति ।
धनस्य देवीं लक्ष्मीं पूजयन्ति ।
निर्धनतां निस्सारयन्ति ।
इयं रात्रिः सुखरात्रिः इति नाम्ना विख्याता ।
🙏🏻
No comments:
Post a Comment