*🌻 पृथग्विभक्तिषु भूमिसमानार्थकशब्दाः 🌻*
🔴 "वसुधैव (वसुधा)कुटुम्बकम्" इति भारतीयः संस्कारोsस्ति।
🔵 वन्दे वसुन्धराम् (वसुन्धरा)। नमामि भूमिम् (भूमिः)
🔴 धरण्या (धरणिः)जगतः पालनं भवति।
🔵 "क्षित्यै (क्षितिः) नमः कुरु" इति गुरुः शिष्यं वदति।
🔴 धरायाः (धरा)अधिकः क्षमाशीलः कोsस्ति?
🔵 मेदिन्याः (मेदिनी)सम्पत्तयः सर्वेषां जन्तूनां कृते सन्ति।
🔴 पृथिव्यां (पृथिवी)पुत्रास्ते जननि! बहवः सन्ति सरलाः।
🔵 विष्णुपत्नि! वसुमति! (वसुमती) नमस्तुभ्यम्।
No comments:
Post a Comment