श्रीः
संग्राहक:-मोहन (बापू)मनोहर जोशी.....
अच्युतानंत गोविंदं श्राद्धकालेतु संस्मरेत् ।
सर्वेषां पापदृष्टीनाम् चक्षूर्बध्नाति केशव।।
भस्मना मंडलंकुर्यात् पंक्तिदोषो न विद्यते।
यथा चक्रधरो विष्णु: त्रैलोक्यं परिरक्षति ।
एवं मंडलं अस्मांकं सर्वभूतानि रक्षतु।।
(गरुड पुराण) .
दंतधावन तांबूलं तैलाभ्यंगं द्विभोजनं ।
रस्यौषधी परान्नं च श्राद्धकृत् सप्त वर्जयेत् ।। (दाल्भ्य स्मृति)
पुनर्भोजन मध्वाणम् भाराध्ययन मैथुनं ।
संध्याप्रतिगृहं होमं श्राद्धभुक्ताष्ट वर्जयेत् ।।(श्राद्ध मंजिरी)
एकोत्तरशतं दर्भै: एकविंशतिरंगुलै:।
अच्छिन्नाग्रे अशुष्काग्रे सकृदाच्छिन्न उच्यते ।
पार्वणश्राद्धे बर्हिप्रशिष्यते ,।।
एकोद्दिष्टे सपिंडे च कपित्थं तु विधीयते ।
नारिकेल प्रमाणंतु प्रत्यब्दे मासिके तथा।।
तीर्थे दर्शे च संप्राप्ते कुक्कुटांड प्रमाणत:।
महालये गया श्राद्धे कुर्यात् आमलकोपमम् ।। (निर्णय सिंधू) .
तिलमन्नं च पानीयं दधि क्षीर गुडं तथा।
मधुसर्पि समायुक्तं अष्टांगं पिंड लक्षणम्।। . .
श्राद्धे यज्ञे विवाहे च दीक्षायां आगते गुरौ।
तिष्ठत: क्षालनं कुर्यात् न्निराशा: पितरो गत:।। (स्मृती मुक्तावली)
. यज्ञोपवितं दातव्यं वस्त्राभावे विजानता ।
पितृभ्यो वस्त्रदानस्य फलं तेनाष्णुते खिलम्।।
निष्क्रियो वा यथाशक्ती वस्त्राभावेप्रदीयते।।(लौंगाक्षिस्मृती ) दैवपूर्वाणि सर्वाणि भोजनान्यभिघारयेत् ।
नामास्वित्यान्धिकान् मंत्रान् सूक्तानि च जपन्स्वयं ।। (श्राद्ध कल्पलता) अग्नौकरण देवस्था: स्वर्गस्था विप्रभोजनै:।
यमस्था पिंडदानेन नरके विकिरेणतु।।
उच्छिष्टेन पैशाचाद्या: असुरान् भूरीभोजनात् ।
दक्षिणेन मनुष्याद्याः श्राद्धे सप्तविधीयते ।। महालय क्रम प्रमाण :-
आदौपिता तथा माता सपत्नी तदनंतरं।
मातामह सपत्नीकानां आत्मपत्नी तदनंतरम्।
सुत भ्राता पितृव्याश्च मातुला सहभर्तृका:।।
दुहिता भगिनी चैव दौहित्र भागीनेयक:।
पितृश्वसा मातृश्वसा श्वशुरो गुरुबांधवा:।
श्वशुरो शालकाश्चैव स्वामिनो गुरुरर्थिन:।। ।। तिलैर्यवैः शिर: प्रोक्तं दध्नानाशेतिचोच्यते।
घृतेन जायते श्रोत्रं गुडात् बाहू पयो हृदि ।
मधुना जायते रोमा करपादादितोयत: ।। (स्मृति मुक्तावली) ,
गोपीचंदन खंडोयं यो ददात् ब्राह्मणो यदि।
अपिसर्षपमात्रेण ब्रह्महत्यां व्यपोहति।। (मार्कंडेय स्मृती) य: श्राद्धकाले हरिभुक्तशेषम् ददाति भक्त्या पितृदेवतानां । तेनैव पिंडांश्च तिलेन मिश्रान् आकल्पकोटिं पितृस्तु तृप्ता:।। (महाभारत ,स्मृती मुक्तावली) . अगस्त्यं भृंगराजं च तुलसी शतपत्रिका।
चंपकं तिलपुष्पं च षडेते पितृवल्लभ:।। (स्मृति मुक्तावली) .
पितृपिण्डार्चनं श्राद्धे य:कृतं तुलसीदलं।
प्रीणाति पितरस्तैस्तु यावत् चंद्रार्कमेदिनी।। (मार्कंडेय पुराण) . पितृमातृश्च भार्याया : भगिन्या दुहितुस्तथा।
पितृश्वसु मातृश्वसु सप्तगोत्रा:प्रकिर्तित:।।(निर्णय सिंधु / त्रिस्थलीसेतु) श्राद्धारंभे तथांतेच पादशौचे तथैवच।
उच्छिष्टे विकिरे पिंडे षडाचम्य समारभेत् ।। आद्यंतयोर्द्विराचामेत् शेषानितु सकृत् सकृत् ।। यजमानस्य दासादीन् उद्दिष्य द्विजसत्तम:।
भुक्त शेषान् त्यजेत् भूमौ वामभागे च पैतृके।। अनुपनीता पुत्रश्च अनुदायाच कन्यका ।
दासादासीति विज्ञेया उभौ उच्छिष्ट भागीनौ।। ब्राम्हणान् असंपत्तौ कृत्वा दर्भमयान् द्विजान्।
श्राध्दं कृत्वा विधानेन पश्चात् विप्रेषु दापयेत् ।। दशकृत्वा पिबेदापौ गायत्र्या श्राद्धभुक् द्विज:।
तदा संध्यामुपासीत जपे च जुहुयात् यदि।। (श्राद्ध मंजरी) .
तिलयुक्तं तीर्थयुक्तं तुलसीदर्भ संयुतं।
तर्पणोत्तममित्याहुः देवादीनांच तृप्तये ।। तिर्थाभावे तिलाभावे दर्भाभावे तत:परं।
तदा गृहित्वा श्रीविष्णोरर्पितं तुलसीदलं।।
(पद्म पुराणे) .
दर्शे तिलोदकं पूर्वं क्षयाहे च परेहनि।
महालये च पिंडांते सकृत् श्राद्धे परेहनि।।
( निर्णय सिंधू) .
वृद्धिश्राद्धे सपिंडे च प्रेतश्राद्धे$नुमासिके ।
संवत्सरे विमोके च न कुर्यात् तिलतर्पणम् ।। (श्राद्धमंजिरी) .
विष्णोर्नार्पितान्नेन य: श्राद्धं कुरुते द्विज:।
व्यर्थं भवेत् तत्सर्वं मोघमन्नामितिश्रुति:।।
कुशकुर्च:
प्रथमाब्दे पंचभिश्च प्रत्यब्दे सप्तभिस्तथ।
तीर्थे महालये चैव नव दर्भाः प्रकीर्तित:।।
श्राध्ये पुष्प:
सर्वाणि रक्त पुष्पाणि वर्जयेत् श्राद्धकर्मणि । जलोद्भवानि देयानि रक्ताण्यापि विशेषतः ।।
कन्यागते सवितरि पितरो यांति वै सुतान् ।
शून्या प्रेतपुरी सर्वा: यावद् वृश्चिक दर्शनम् ।।
ततो वृश्चिक संप्राप्ते निराशा: पितरो गता: ।
तत:स्वभवनंयांतिशापंदत्वा सुदारुणम्।।
(हेमाद्री ब्राह्मे)
श्राध्दभोजनस्य निषेध :
परान्ने दश गायत्री श्राद्धे भुंक्ते शत त्रयम्।
गर्भधानादि सहस्रं अयुतं प्रेतभोजनम्।।
सर्वदा च तिला ग्राह्या पितृकृत्ये विशेषतः ।
भोज्यपात्रे तिलान्दृष्ट्वा निराशा: पितरो गता:।।
वामहस्तेच दर्भास्तु गृहे रंगावलिं तथा ।
ललाटे तिलकं दृष्ट्वा निराशा:पितरो गता:।।
🙏
वेद सेवक:
No comments:
Post a Comment