मोक्ष के चार द्वार (साधन)
-------------------------------
मोक्षद्वारे द्वारपालाश्र्चत्वारः परिकीर्तिताः ।
शमो विचारः संतोषश्र्चतुर्थः साधुसङ्गमः ॥
एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयोऽथवा ।
द्वारमुद्घाटयन्त्येते मोक्षराजगृहे तथा ॥
एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् ।
–योगवासिष्ठ 2/11/59-61
*मुमुक्षुप्रकरणम्*
-------------------
प्रभाते श्रीवसिष्ठः श्रीरामं प्रति पूर्वसर्गोक्तवस्तुफलितं कथयति–
"यत्र" पुरुषेण "शास्त्रिताद् अपि पौरुषात् अनर्थः प्राप्यते तत्र अनर्थकम्" अनर्थोत्पादकं "स्वपौरुषम्" अशास्त्रीयं पौरुषं । "बलवज् ज्ञेयम्" । तन्मध्ये प्रविष्टाद् बलवतः स्वपौरुषाद् एवासौ अनर्थ उत्पन्न इति "ज्ञेयम्" इति भावः । अर्थात् तु यत्र अनर्थः न प्राप्यते तत्र शास्त्रीयम् एव बलवज् ज्ञेयम् ।
"परं पौरुषम्" शास्त्रोक्तं पौरुषम् । "उद्युक्तः" उद्योगयुक्तः । "प्राक्तनं पौरुषम्" वासनाख्यम् प्राक्तनम् । अपि "शुभं" शुभकार्य् एव । यतः शुभा वासनैव मोक्षदायिनी प्रोक्तेत्य् "अशुभम्" इत्य् उक्तम् ।
"पौरुषम् अनन्तं" अन्तरहितं । "न च" भवति । किं तु नियतम् एव भवति । "पौरुषं" कर्तृ । "यत्नम् न अभिवाञ्छते" न स्वोत्पादकत्वेन काङ्क्षते । यत्नेन स्वस्य नियमं न लङ्घयति इति यावत् । पुरुषो "महतापि यत्नेन" स्वस्मिन् नियतं पौरुषं न लङ्घयितुं शक्नोतीति भावः । एतद् दृष्टान्तेन सुगमं करोति । "न यत्नेने"ति ।
"तस्मात्" पूर्वसर्गोक्तात् हेतोः । "प्राक्पौरुषं" प्राक्तनं पौरुषं । "दैवम्" भवति । "अन्यत्" पौरुषाद् भिन्नं किंचिद् दैवम् । "न" भवति । अतः पुरुषः "तत्" दैवं । "दूरतः प्रोज्झ्य" अर्थात् अद्यतनं शुभं पौरुषम् आश्रित्य । "साधुसङ्गमसच्छास्त्रैः" हेतुभूतैः । "जीवम् बलात्" हठेन । "उत्तारयेत्" । "संसाराद्" इति शेषः ।
"कर्म" पौरुषम् । "अनीशः" असमर्थः । "वाङ्मनःसुखदुःखौ" अप्य् "असौ" नाशयितुं न शक्नोति । शरीरदुःखनाशे तु का कथेति भावः ।"सदाचारेण" साध्वाचारेण । "विहारः" विद्यते यस्य । तादृशः । "स" इति । "स" एव शुभपौरुषभाजनम् इति भावः ॥
–रमेशप्रसाद शुक्ल
–जय श्रीमन्नारायण।
No comments:
Post a Comment