Tuesday, November 21, 2017

Rishi pancami - Sanskrit essay

*ऋषिपञ्चमी*

नागपञ्चमी, वसन्तपञ्चमी, ऋषिपञ्चमी इत्यादयः तिथयः हैन्दवानां कृते महत्त्वपूर्णाः तिथयः। भारतसंस्कारस्य अपरं नाम आर्षभारतसंस्कारः इति तत्र आर्षः इत्युक्ते ऋषिसम्बन्धः इत्यर्थः अतः भारते ऋषीणां स्थानं प्रमुखं वर्तते। ऋषयः सत्यद्रष्टारः तेषां पूजनेन परमसत्यावबोधनं भवतीति अस्माकं विश्वासः। वेदमन्त्राणां जपवेलायां ऋषि-छन्दः-देवता इति क्रमेण  मृगमुद्रया सहितं 
 न्यासं कुर्वन्ति पूजकाः तदनन्तरमेव तैः मन्त्रप्रयोगः क्रियते। भाद्रपदमासे विनायकचतुर्थ्यनन्तरम् अग्रिमा तिर्थिरस्ति ऋषिपञ्चमी। सप्तर्षीनां पूजनं तथा पञ्चर्षीनां पूजनं च भवतः प्रायः । कश्यपः अत्रिः भरद्वाजः विश्वामित्रः गौतमः जमदग्निः वसिष्ठः एते सप्तर्षयः इति प्रसिद्धाः। ऋषयः मन्त्रद्रष्टारः इत्यपि जानीमः। अस्माकं धर्मग्रन्थाः तेषां व्याख्याः च सर्वे ऋषयः एव रचितवन्तः तदाश्रित्य खलु अस्माकमस्तित्वम्। ज्ञाताज्ञातदोषनिवारणार्थं ऋषीणां पूजां कुर्वन्ति अधुनापि । अनया पूजया पूर्वजन्मनि कृतानि पापान्यपि निवारयितुं शक्यते इत्येव शास्त्रमतम्। विश्वकर्मा एव अस्य प्रपञ्चस्य ब्रह्मादिदेवानां ऋषीणां च सृष्टेः पृष्ठतः अस्तीति वेदस्य प्रमाणं किन्तु तेषां पुरतः स्वयमेव सः परमेशः नाविर्भूतवान् तन्निमित्तं दुखिताः बह्मादिदेवगणाः सर्वे ऋषयः च तस्य सेवाम् अकुर्वन्। अन्ते तेषां पुरतः स्वस्य विराटस्वरूपसमेतः परमकारणभूतभगवान् प्रत्यक्षमकरोत्  तदारभ्य तद्दिनस्य आचरणं ऋषिपञ्चमी इति नाम्ना अस्ति इत्यपि प्रसिद्धा कथा श्रूयते । सर्वेषां संस्कृतसमुपासकानां मम बान्धवानां कृते अस्यैव पुण्यदिवसस्य शुभाशयाः अस्मिन् समये संस्कृतक्षेत्रे अपिच अस्माकं शास्त्रेषु च निपुणतां प्राप्तुं ऋषीणां अविरामानुग्रहं भवतु इति प्रार्थये।। 

🙏🙏🙏🙏🙏
🌻🌷🌷🌹💐
 ~ सुनीशः

No comments:

Post a Comment