Thursday, November 23, 2017

Morning - Sanskrit essay

प्रातःकालः🌦 
अहो! कियत् रम्यं वातावरणं भवति प्रातःकालस्य। विहगाः मधुराणि गीतानि गायन्ति। मन्दिरे मञ्जुलः घण्टनादः गुञ्जति। यदा प्राच्यां सूर्योदयः भवति तदा सर्वत्र प्रकाशः प्रसरति। कृषिवलाः क्षेत्राणि प्रति,भक्ताः देवालयं प्रति,छात्राः विद्यालयं प्रति च गच्छन्ति। उद्याने सुन्दराणि पुष्पाणि विकसन्ति। तेषां सौरभेन वातावरणं रुचिरं भवति। प्रातःकालस्य वातावरणं उत्साहवर्धकं भवति। यस्य  प्रातःवेला शुभा भवति तस्य सम्पूर्णदिवसः शुभः भवति। - देवा बुधेलिया।

No comments:

Post a Comment