Thursday, November 9, 2017

Kaala balam - Sanskrit

जय गुरुदेव जय महर्षि जी
ज्योतिर्विद्या
6.2. कालबलम् ।
द्व्यनदिवसहोरामासपैः कालवीर्यं भवति। अर्थात् स्ववारः, (द्वि-अयन) स्वसंवत्सरः, स्वहोरा, मासाश्च एतैः ग्रहाणां कालबलं चतुर्विधं भवति। एतेषु यत् कालः अल्पः तस्मिन् काले बलाधिक्यम्। ततः क्रमेण कालाऽधिकेषु बलस्य न्यूनत्वं भवति। कालहोरायां यत् कालबलं ततो न्यूनं स्वदिवसे, ततो न्यूनं स्वमासे , ततो न्यूनं स्वसंवत्सरे, कालबलमिति।
बोधप्रश्नः
1. कालबलं कति विधम्?
6.2.1. दिनरात्रिबलम् । 
चन्द्र-कुज-शनयः रात्रौ बलिनः भवन्ति। ज्ञः सर्वदा बली। रविगुरुशुक्राः दिने बलिनः भवन्ति। शशिकुजसौराः निशि बलिनः। बुधः निशि दिवा च बलवान्। अहनि अन्ये बलिनः भवन्ति। श्लोकोक्त अन्ये इति पदेन केषां ग्रहणम्? इति पृष्टे सति रविशुक्रजीवाः बलिनः इति ज्ञेयः। निशाशब्देन मध्यरात्रिः उच्यते। अहश्शब्देन मध्याह्नः ज्ञायते। शशिकुजसौराः मध्याह्ने बलशून्याः। अर्कगुरुशुक्राः मध्यरात्रेः बलशून्याश्च भवन्ति। अन्तरे काले व्यवस्थितानां ग्रहाणां कालबलं कथम्? इति जिज्ञासा। तदर्थम् अनुपातः। मध्यरात्र्यादारभ्य जन्मकालावधिको नाड्यादिकालो ग्राह्यः। तत् द्विगुणीकृत्य षष्ट्यांशरूपं बलम् आनेतव्यम्। एतत् बलं शशिकुजसौराणां कथितम्। षष्टितः अपनीय शिष्टं रविगुरुशुक्राणां बलम्। एतत् षष्ट्यंशरूपमेव । बुधस्य सर्वदा दिवारात्रौ षष्टिः। षष्ट्यांशानां षष्टिबलमिति। किमर्थं बुधस्य अहर्निशा च बले विशेषता प्रदत्ता? इति जिज्ञासा स्वरूपः। तच्च लिख्यते- बुधस्य सूर्येण युतौ निपुणयोगो भवति। चन्द्रेण युतौ समागमः भवति। "निशि शशिकुजसौरास्सर्वदाज्ञोऽह्नि चान्ये।"
बोधप्रश्नाः-
1. दिवाबलिनः ग्रहाः के भवन्ति?
2. रात्रिबलिनः ग्रहाः के भवन्ति?
3. सदाबलिनः ग्रहाः के भवन्ति?
1.7 । अथ मेषादीनां स्थानवर्णनम् ।
मेषस्य धातुकररत्नधरातलं स्यात् उक्ष्णस्तु सानुकृषिगोकुलकाननानि।
द्यूतक्रियार्तिविहारमही युगस्य वापितटाकपुलिनानि कुलीरराशेः।।10।। ---डॉ॥ मुरलीश्याम:।

No comments:

Post a Comment