स्वतन्त्रतादिवसोत्सवः 15/08/17
%%%%%%%%%%%%%%%%%%%%%%%
अद्य स्वतन्त्रतादिवसो$स्ति वै सर्वे भाग्यशालिनः।
तेषां स्मरणं करणीयं स्वतन्त्रतायै जीवनं हुतम्।।
यद्यपि चेदं दुर्भाग्यं तदा देशो$यं हि विभाजितः।
अद्यापिचदुर्भाग्येण केचनजनाःशान्त्यानवसन्ति हि।
स्वतन्त्रास्ति मनुष्याणां हि जीवने महान् निधिः।
अस्याः सुरक्षा करणीया प्राणैरपि धनैरपि।। स्वतन्त्रतास्वछन्दतयोर्मध्ये रेखा अस्तिविभाजिका।
स्वच्छन्दाः हि केचन अधुना ते राष्ट्रगाने उपेक्षकाः।।
भ्रष्टाः राजनीतिज्ञाः व्यवसायिनो वै स्वार्थसाधकाः।
अधिकारायसन्नद्धाःकर्मचारिणःकार्यविमुखाः हि वै।
करिष्यन्तिशासकाः सर्वं हिस्वच्छन्दाःस्मवयं सदा।
अनया भावनया बद्धाः सर्वे कर्तव्यपरांगमुखाः।। राष्टे सुरक्षिते जाते वयं सर्वे सुरक्षिताः ।
स्वार्थभावात् पृथक् भूत्वा रक्षणीयं राष्ट्रं सदा।।
डा गदाधर त्रिपाठी
No comments:
Post a Comment