जनमानसे रामसेतुनिर्माणकालीना कथा इयम् ।
रामसेतुनिर्माणकार्यं प्रचलदासीत् । वानरसैनिका: प्रस्थरखण्डान् दारुखण्डाञ्च एकत्रीकृत्य निर्माणं कुर्वन्ति स्म । एक: चिक्रोड: अपि आत्मानं रामकार्ये /धर्मकार्ये योजितवान् । राम: तं बहुकालं यावत् पश्यन्नासीत् । एतद्दृष्ट्वा लक्ष्मण: उक्तवान् यत् भवान् किमर्थं तं चिक्रोडं सूक्ष्मेक्षिकया पश्यन्नस्ति । तच्छ्रुत्वा राम: उक्तवान् अहं तन्न पश्यामि अपितु तस्य कार्यं पश्यामि । य: आत्मानं मत्कार्ये/ धर्मकार्ये योजितवान्नस्ति । लक्ष्मणेनोक्तं यत् अयं भवत्कार्यं न करोति अपितु स्वभाववशात् करोति । राम: उक्तवान् । अस्तु, चलाव: तमेव पृच्छामि । रामलक्ष्मणौ चिक्रोडस्य पार्श्वे गतवन्तौ पृष्टवन्त: । किमर्थं त्वं वारंवारं समुद्रजले आत्मानं निमज्जयसि ततश्च पुन: सिकतायां पुनश्च सेतौ सिकता: त्यजसि ।
तदा चिक्रोडेनोक्तं यत् रामकार्यमिदं धर्मकार्यमस्ति अत: धर्मकार्ये आत्मानं नियोजयामि । लक्ष्मणेन पृष्टं यत् जानासि त्वं त्वया संस्थापितसिकताखण्डै: सेतो: निर्माणं न भवितुं शक्नोति तथापि किमर्थं व्यर्थं प्रयत्नं करोषि । एतच्छ्रुत्वा चिक्रोड: वदति यत् जानाम्यहम् महत्कार्यमिदं परन्तु अहं सामान्य: तथापि महत्कार्ये यावन्मया शक्यते तावत् करोमि तेन को हानि: ।
मित्राणि ! अद्य एतादृशस्य एव चिन्तनस्य आवश्यकता अस्ति । देशसेवनकार्यं सुरभारतीसेवनकार्यं महत्कार्यं परञ्च तस्मिन् महत्कार्ये अस्माकं सहयोग: स्यात् यतोहि कार्यमिदं धर्मकार्यम् । अत: निवेद्यते मया यावच्छक्यं जीवने देशसेवनं राष्ट्रसेवनं सुरभारतीसेवनञ्च अस्माभि: सततं साधनीयम् । येन अस्माकं जीवनं साफल्यं यास्यति । अद्यारभ्य सङ्कल्पं कुर्मो वयं यद् अस्माभि: स्वच्छताभियान- भ्रष्टाचारोन्मूलन- जातिवादोन्मूलन- इत्यादीनि राष्ट्रसेवनं सुरभारतीसेवनञ्चेति महत्कार्ये यावच्छक्यं प्रयासं विधास्याम: इति ।
प्रार्थी -दीपकवात्स्य:
No comments:
Post a Comment