अग्निः — अ॒ग्निः꣡
अगिँ गतौ (भ्वादिगणः)—भूवादयो धातवः (अ॰१.३.१)
उपदेशेऽजनुनासिक इत् (अ॰१.३.२)
तस्य लोपः (अ॰१.३.३)
अग् इदितो नुम् धातोः (अ॰७.१.५८)
मिदचोऽन्त्यात् परः (अ॰१.१.४६)
अ+नुँम्+ग् इत्-संज्ञालोपकार्याणि
अन्ग् धातोः (अ॰६.१.१५६) – अन्तोदात्तः
अ꣡न्ग् अङ्गेर्नलोपश्च (उणादि॰ ४.५०) – नलोपः नि-प्रत्ययः च
अ꣡ग्+नि प्रत्ययः, परश्च, आद्युदात्तश्च (अ॰३.१.१-३) - आद्युदात्तः
अ꣡ग्+नि꣡ सति शिष्टस्वरो बलीयान् (महाभा॰६.१.१५२)
– नि-स्वरः बलीयान् शिष्टः च
अग्+नि꣡=अग्नि꣡ अनुदात्तं पदमेकवर्जम् (अ॰६.१.१५२) -नि꣡-स्वरं वर्जयित्वा शिष्टः (अकारः) अनुदात्तः
अ॒ग्+नि꣡=अग्नि꣡ प्रातिपदिकार्थलिङ्गवचनमात्रे प्रथमा (अ॰२.३.४६)
द्वेकयोर्द्विचनैकवचने (अ॰१.४.४२)
- प्रथमाविभक्तौ एकवचने सुँ-प्रत्ययः
अ॒ग्नि꣡+सुँ इत्-संज्ञालोपकार्याणि
अ॒ग्नि꣡+स् ससजुषोः रुः (अ॰८.२.६६) – सस्य रुँ आदेशः
अ॒ग्नि꣡+रुँ इत्-संज्ञालोपकार्याणि
अ॒ग्नि꣡+र् विरामोऽवसानम् (अ॰१.४.१०९)
खरवसानयोर्विसर्जनीयः (अ॰८.३.३५) -रेफस्य विसर्गः
अ॒ग्निः꣡ इति अ॒ग्निः꣡-पदस्य स्वरविधानम्॥
उदाहरणम्—
अ॒ग्निः꣡ पू꣡र्वे॑भि॒र्ऋ꣡षि॑भि॒री꣡ड्यो॒ नू꣡त॑नैरु॒त꣡। स꣡ दे॒वाँ꣡ एह व॑क्षति॥2॥ [ऋग्वेदः 1.1.2 (2)]
पदपाठः—अ॒ग्निः꣡। पू꣡र्वे॑भिः। ऋ꣡षि॑ऽभिः। ई꣡ड्यः॑। नू꣡त॑नैः। उ॒त꣡। सः꣡। दे॒वा꣡न्। आ꣡। इ॒ह꣡। व॒क्ष॒ति॒॥2॥
विशेषः— मुख्यरूपेण उदात्तः, अनुदात्तः स्वरितः च इति त्रयः स्वराः। स्वरितात् परःस्थितानाम् अनुदात्तानाम् स्वरितात् संहितायामनुदात्तानाम् (अ॰१.२.३९) स्वरितादनुदात्तानां परेषां प्रचयः स्वरः। उदात्तश्रुतितां यान्त्येकं द्वे वा बहूनि वा॥ (ऋक्प्राति॰३.१९) इति नियमेन एकश्रुतिः प्रचयः वा स्वरो भवति।
परम्परया अनुदात्तः अधोरेखया स्वरितः ऊर्ध्वरेखया च चिह्नितौ भवतः। उदात्त-प्रचयौ च अचिह्नितौ तिष्ठतः।
यथा—अनुदात्तः—क॒ । स्वरितः—क॑ । उदात्तः—क । प्रचयः (एकश्रुतिः—क)
उदात्तप्रचययोः स्पष्टभेदार्थम् अत्र सर्वत्र उदात्तस्वरः वर्णस्य उपरि सामवेदस्वरवद् १अङ्कसंख्यया निर्दिष्टः— उदात्तः—क꣡ । प्रचयस्वरः च अचिह्नित एव— प्रचयः (एकश्रुतिः)—क ।
उदाहरणेऽस्मिन् उदात्तादनुदात्तस्य स्वरितः (अ॰८.४.६५) इति सूत्रेण उदात्तात् परःस्थितः अनुदात्तः स्वरितः जातः। स्वरितात् परःस्थिताः अनुदात्ताः च प्रचयाः जाताः। ते च अचिह्निताः निर्दिष्टाः।
No comments:
Post a Comment