Tuesday, October 24, 2017

Mother's day - Sanskrit essay

मातृदिनम् 

श्रावणपौर्णिमा नाम मातृदिनम्। एषा परंपरा न प्राचीना इति केषांचित् विदुषां मतः। तेषां विचारै:  विदेशीयानां 'Mother's Day' एतस्मात् वयं एषा रीतीः स्वीकृतवन्तः ।परं एषः तर्क: निराधार:। कस्यापि अनुकरणं वा काचित् रीतिपरंपरयोः च अन्यसंस्कृते: ग्रहणं न आवश्यकं। न च तादशी दुर्बला अस्माकं संस्कृतिः।

भारतीयसंस्कृत्यां माता स्वर्गादपि गरीयसी।

पुरा बालकस्य ज्ञानारंभे प्रथमदिने " मातृ देवो भव। पितृ देवो भव। आचार्य देवो भव। " एतादृशानां उदत्ताविचाराणां संस्कार: अनिवार्यः आसीत्।

मातापित्रो: आज्ञाधारकं, तयोः कृते स्वसुखत्यागकारकं पुत्रं आदर्शः आदरणीयः च गणयते। विमाताकैकय्याः आज्ञापालनार्थं तथा पितावचनपूर्त्यार्थं प्रभुरामचंद्रेण १४ वर्षयावत् वनवासः स्वीकृत:।भक्तपुंडलिकस्य मातापितासेवया मंत्रमुग्धः भगवान् विष्णुः अधुनापि इष्टिकाया विठ्ठलरुपेण स्थितः। पितृसुखार्थं विमातासंशयनिवारणार्थं च आजन्म ब्रह्मचारीव्रतस्य देवव्रतस्य (भीष्मस्य) प्रतिज्ञा एकमेवाद्वितीया। एतादृशानि बहुनि उदाहरणानि अस्माकं गौरवपूर्णे इतिहासे विद्यामानानि। 

अन्यकेषुचित् दिनेष्वपि मातापितापूजनस्य प्रावधानमस्ति। जन्मदातृणां प्रति कृतज्ञतायापनस्य एषा गौरवपूर्णा रीति: अखंडतया संरक्षिता भवेत् एतत् अस्माकं परमकर्तव्यम्।
                       मानसी दीक्षित

No comments:

Post a Comment