```विश्वानि देव सवितर्दुरितानिपरासुव।
यद्भद्रं तन्न आ सुव॥1॥
—यजुर्वेद। अध्याये 30। मन्त्रः 3॥
भाष्यम्— हे सच्चिदानन्तस्वरूप! हे परमकारुणिक! हे अनन्तविद्य! हे विद्या- विज्ञानप्रद! (देव! हे सूर्यादि-सर्वजगद्विद्या-प्रकाशक! हे सर्वानन्दप्रद! (सवितः) हे सकलजगदुत्पादक ! (नः) अस्माकम् (विश्वानि) सर्वाणि (दुरितानि) दुःखानि सर्वान् दुष्टगुणांश्च (परासुव) दूरे गमय। (यद्भद्रं) यत्कल्याणं सर्वदुःखरहितं सत्यविद्या-प्राप्त्याऽभ्युदय-निःश्रेयस-सुखकरं भद्रमस्ति (तन्नः) अस्मभ्यं (आसुव) आ समन्तादुत्पादय कृपया प्रापय।```
No comments:
Post a Comment