Sunday, September 10, 2017

Karna & Arjuna - Poorva Vrittaantam told by Pulastya - Sanskrit

त्रिपुरुषाज्जातोऽर्जुनः

   महाभारते कौरवपाण्डवयौर्मध्ये जन्मतः वैरम्भवतीति वयं जानीमः.। दायभागविषयत्वात्। किन्तु पाण्डवानां प्रति कर्णस्य वैरं कथमुत्पन्नः? विशेषेण अर्जन विषये एव अत्यन्त द्वेषमासीत् कर्णस्य बाल्यादपि।किं कारणमस्य इत्येवं विचार्यमाणे पद्मपुराणे कर्णर्जुनयोर्वृत्तान्तं दृश्यते।

भीष्मः पुलस्त्यं एवं अपृच्छत्-
 
कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा।
कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते।।

वैरं तयोः कथं भूतं निसर्गादेव तद्वत्।
बृहत्कौतूहलं मह्यं तद्भवान् वक्तुमर्हति।।
                    ----  पद्मपुराणं, सृष्टिखण्डम्।

    त्रिपरुषात् अर्जुनः कथं जातः? कर्णः कनीनः कथं भवति? जन्मत एव कर्णार्णार्जुनयोः वैरं कथं सम्भूतम् इति। तच्छृत्वा पुलस्त्यः कर्णार्जुनयोः जन्मवृत्तान्तं एवं अकथयत्। 

   पुरा महादेवः ब्रह्मणः पञ्चशीर्षेषु एकं शिरं छिनत्ति।तदा क्रोधमापन्नः ब्रह्मा ललाटे उत्पन्नं स्वेदं भूमौ प्राक्षिपत्।तस्मात् स्वेदात् धनुर्बाणैस्सह सहस्रकवचधारी पुरुषः संञ्जातः। स उवाच-" किं करोमि ब्रह्मन्"? इति। ब्रह्मा तं दृष्ट्वा " रुद्रं सहरतु क्षिप्रमेव " इत्याज्ञां चकार। ओमित्युक्त्वा स पुरुषः कपालपाणिं महेशं हन्तुं तस्य पृष्ठे धावति।वेगेन आगच्छन्तं तं पुरुषं दृष्ट्वा भीतस्सन् रुद्रः स्वरक्षणार्थं विष्णवे प्रार्थयामस। विष्णोः हुङ्कारध्वनिना स पुरुषः निश्चेटोऽभवत्। कपालपाणिं महादेवं दृष्ट्वा हरिः 'इतोऽपि किं करवाणि'? इत्यपृच्छत्। ईश्वरः' भिक्षां देहि' इति प्रार्थितवान्। तं श्रुत्वा नारायणः स्वदक्षिणं भुजं कपाले अर्पयत्। तस्मात् भुजात् रुधिरधाराप्रवाहः दिव्यवर्षसहस्रपर्यन्तं भवत्येव। तत्पश्चात् नारायणेन शम्भुः पात्रं पर्याप्तं वा नवेति पृष्टः। ततः शिवः पात्रे रुधिरं कियत्परिमाणं अस्तीति द्रष्टुकामस्सन् स्वाङ्गुल्या वेष्टितवान्। तथा तन्मध्ये बुद्बुदः जातः। तस्मात् बुद्बुदात् कश्चन पुरुषः सञ्जातः। सः बद्धतूणीरयुगलः सशरासनः किरीटी च। तं दृष्ट्वा ईश्वरः विष्णुं प्रत्यवोचत्। 

नरो नामैष पुरुषः परमास्त्रविदां वरः।
भवतोक्तौ नर इति नरस्तस्मात् भविष्यति।।

  " भवन्मुखात् क एष नरः इति पदमागतः। अत एव एषः नरनाम्ना विख्यातिं प्राप्स्यति। हे नारायण! अग्रिमे युगे एषः तव सखा भविष्यति। " इत्युक्त्वा ईश्वरः" विष्णु हुङ्कारेण मोहितं तं पुरुषं घातय"इति कपलोत्थितं रक्तजं पुरुषं आज्ञापयामास। पुनःहरेः वामपादाघातादेव जागृतः ब्रह्मस्वेदजः पुरुषः युद्धाय समुपस्थितः।स्वेदजरक्तजयोर्मध्ये दिव्यवर्षद्वय युद्धमभवत्। पराक्रमसमानौ तौ। द्वयोर्मध्ये पराजयः न दृश्यते। विष्णुः ब्रह्मणा सह तौ युद्धात् निवार्य " कलिद्वापरसन्धौ यूयं कर्णार्जनरूपेण जन्मं प्राप्स्यतः। कुरुत्क्षेत्रसंग्रामे अर्जुनः कर्णं जेष्यतीति "अवोचत्। 

  तत्पश्चात् विष्णुः सूर्यं इन्द्रं च समाह्वयत्। सूर्यमुद्दिश्य एवं आह-"रवे! एतं ब्रह्मस्वेजपुरुषं रसातले निक्षिप्य द्वापरयुगे दुर्वाससा वरं प्रार्थ्यमानां कन्यायाःकुन्त्याः गर्भे प्राविशतु। सः कानीनः वसुषेणेत्यभिधानेन कर्णेति प्रतिष्ठां च प्राप्स्यति"। ओमित्युक्वा सूर्यः तं पुरुषं प्रतिजग्राह। 

     अनन्तरं इन्द्रमुद्दिश्य विष्णुः " इन्द्र! एनं नरं गृहीत्वा भर्त्रा पाण्डुना प्रेरितायाः कुन्त्याः गर्भे स्थापय"। इत्याज्ञाञ्चकार। तथा इन्द्रः-"त्रेतायां रावणस्य विनाशनार्थं जनितेन रामेण सूर्यपुत्रस्य सुग्रीवस्य हितार्थं मत्पुत्रः वाली मारितः। तेन पुत्रशोकेन अधुनापि दुःकमनुभवामि। तस्मादहं एनं नरं न प्रतिगृह्णामि" इति प्रत्यवदत्। तथा हरिः-" एषः नरः नरमहर्षि रूपेण मत्सखा भविष्यति। अन्यजन्मनि अर्जुननाम्ना प्रख्यातिं सम्प्राप्य सूर्यपुत्रं संहरिष्यति। कुरुकुलक्षयार्थं करिष्यमाणे कौरुक्षेत्रसंग्रामे तस्य रथसारथ्यं वहिष्यामि। स किरीटी त्रिलोकेष्वपि अजेयः भविष्यति" इति वरं प्रादात्। 

   अनेन वृत्तान्तेन क्रोधयुक्तस्य ब्रह्मणः स्वेदात् सञ्जातस्य पुरुषस्यापि तथैव गुणमाविवेश इति ज्ञायते। 

   तस्मात्करणादेव कर्णार्जनयोर्मध्ये आजन्मवैरमासीदिति अवगन्तुं शक्नुमः।

                           बाला...

No comments:

Post a Comment