Monday, June 12, 2017

Story of Kalidasa in sanskrit

Courtesy:http://laukiksanskrit.blogspot.in/2016/10/blog-post.html

महाकविः कालिदासः

!!!---: महाकविः कालिदासः :---!!!
=============================

महाकवेः कालिदासस्य नाम न केवलं भारते एव प्रसिद्धम्, अपितु सम्पूर्णे धरातलेSस्य महती प्रसिद्धिः । अयं हि कविकुलगुरुः , इति सर्वे स्वीकुर्वन्ति । इङ्गलैण्डवासिनः तं द्वितीयं शैक्सपीयरं कथयन्ति । इटलीवासिनः स्वकीयसर्वश्रेष्ठाभ्यां कविभ्यां दान्ते-वर्जिलाभ्यां तस्य तुलनां कुर्वन्ति , जर्मनीदेशवासिनस्तु तं विश्वकविमेव कथयन्ति ।

एषः महान् कविः कदा कुत्र वाSभवत् इति स्पष्टतः कथयितुं न शक्नुमः । अस्य जीवनेन सह बहूनां राज्ञां सम्बन्धं ग्रन्थेषु पठामः, परमितिहासस्यानुसन्धानेन सिध्यति यदयं महाराजस्य विक्रमादित्यस्य नवरत्नेषु सर्वश्रेष्ठः आसीत् ।

अस्य महाकवेः विषये एका जनश्रुतिरस्ति यत् विद्वत्तमा नाम काचित् परमविदुषी राजकन्या प्रत्यजानात् यत्सा केवलं तेनैव सह विवाहं करिष्यति , यः तां शास्त्रार्थे विजेष्यते ।

बहवो विद्वांसः तया सह शास्त्रार्थम् अकुर्वन् परं कश्चित् अपि तां विजेतुम् नाशक्नोत् । तदा केचित् धूर्ताः पण्डिताः निर्णयम् अकुर्वन् यत् येन केन प्रकारेण अस्याः विवाहं केनापि मूर्खतमेन मनुष्येण सह कारयिष्यामः, येनेषा पण्डितानां कृतस्यापमानस्य फलं प्राप्नुयात् ।



इति विचिन्त्य ते एकं वज्रमूर्खमपश्यन् यः वृक्षस्य तामेव शाखां छिनत्ति स्म यस्यां सः उपविष्टः आसीत् । ते तम् आकारयन् अकथयन् च यत् ते तस्य विवाहं राजकुमार्या सह कारयिष्यन्ति यदि सः मौनेन एव तिष्ठेत्, केवलं च संकेतैरेव प्रश्ननानुत्तरेत् ।



पण्डिताः तं मूर्खं पण्डितवेषधारिणं कृत्वा विद्वत्तमायाः समीपेSगच्छन् , अकथयंश्च यत् सः तेषां मौनी गुरुः केवलं संकेतैरेव प्रश्नान् उत्तरिष्यति । विद्वत्तमा च स्वीकृतवती । मूर्खस्य संकेतानां पण्डिताः तादृशान् अर्थान् कथितवन्तः यैः विद्वत्तमा पराजिताSभवत्, तेन च मूर्खेण सह तस्याः विवाहोSभवत् ।



यदा इमौ दम्पती एकस्मिन् प्रकोष्ठे आस्ताम् , तदा उष्ट्रः उच्चैः शब्दमकरोत् । तस्य शब्दं श्रुत्वा मूर्खः "उट्र, उट्र" इत्येवम् अवदत् ।

उष्ट्रस्य स्थाने "उट्र" शब्दं श्रुत्वा विद्वत्तमाSजानात् यत् धूर्ताः पण्डिताः तस्याः विवाहं वज्रमूर्खेण सहाकारयन् । तदा साSतीव दुःखिताSभवत् स्व-पतिं च गृहात् बहिरकरोत् ।

अयं मूर्खोSचिन्तयत्---"विदुषी मम पत्नी मूर्खश्चाहम् । धिङ् मां मूर्खम् । यावदहं विद्वान् न भविष्यामि , नात्रागमिष्यामु ।"



इति चिन्तयित्वा सः ईश्वर-भजनेन विदुषां च संगेन पूर्णो विद्वान् अभवत् । एषः एव विद्वान् भूत्वा कालिदास-नाम्ना प्रसिद्धोSभवत् । तदा सः स्वपत्नीं द्रष्टुम् अगच्छत् । पत्नी तु कपाटमा आवृत्य गृहे आसीत् । तदा कालिदासः ताम् अकथयत्---"अनावृत-कपाटं द्वारं देहि ।"

पत्नी अपृच्छत्----"अस्ति कश्चित् वाग्विशेषः ?"



तत् श्रुत्वा कालिदासः एकेन एकेन पदेन त्रीणि काव्यानि---(१.) कुमारसम्भव---(२.) मेघदूत---(३.) रघुवंशनामानि अरचयत् ।

अभिज्ञानशाकुन्तलममस्य कवेः सर्वश्रेष्ठां कृतिं मन्यन्ते विद्वान्सः । अनेन लिखिताः सप्त ग्रन्थाः सन्ति ----कुमारसम्भव-रघुवंशे महाकव्ये, ऋतुसंहार-मेघदूते द्वे खण्डकाव्ये, मालविकाग्निमित्र-विक्रमोर्वशीय-अभिज्ञानशाकुन्तलानि च त्रीणि नाटकानि ।



कालिदासः संस्कृतभाषायाः गौरवम्, भारतस्य गौरवम्, कवीनां च गौरवम् । अस्य ग्रन्थानां पठनेन हृदयं रसमग्नं भवति, वयं च भारतीय-संस्कृतेः स्वरूपं सम्यक् ज्ञातुं शक्नुमः ।