Tuesday, June 13, 2017

sri Vishnu sahasranama Bhashyam of Sri Satyasandhayatiraja:

courtesy: https://www.google.co.in/url?sa=t&rct=j&q=&esrc=s&source=web&cd=1&cad=rja&uact=8&ved=0ahUKEwjRneLksd_PAhWJKo8KHQD0AT8QFggdMAA&url=http%3A%2F%2Fxa.yimg.com%2Fkq%2Fgroups%2F23451465%2F323985616%2Fname%2FsatyasandhayatirAjJNorvishhNusahasranAmabhAshhyaH.docx&usg=AFQjCNGKMbN3r8C6NfchhrUl3I960tV4jg&sig2=03oI9-CFjUQjpVpUZZzT4w

॥ श्रीविष्णुसहस्रनामभाष्यम् ॥

(श्रीसत्यसन्धयतिराजकृतम्)

॥ हरिः ॐ ॥

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥१॥

भाष्यम् ॥ इह हि नानाविधव्यसनराशिभवावभुग्नशिरसां कलिमलावकुण्ठितमनसां निःश्रेयससाधनसंविद्विधुराणां वेदानधिकारिणां स्त्रीशूद्रादीनां संसारार्णवतारणाय परमकारुणिककमलाकमलासनमुखसुरवरनिकरप्रर्थितेन निर्व्याजकरुणश्रीरमणेन स्वीकृतव्यासरूपेण निर्मितसहस्रनामानि पूर्वतनैर्व्याख्यातान्यपि बुद्धिशुद्धये यथामति व्याख्यास्यन्ते ॥ विश्वमिति ॥ विश्वं जगत्प्रविष्टम् । विश् प्रवेशन इति धातुः । तदेवानुप्राविशदिति श्रुतेः । सर्वत्र प्रविष्टत्वाज्ज्ञानरूपत्वाद्वा विश्वम् । वा गतिगन्धनयोरिति धातुः । विश् च तत् वञ्चेति विग्रहः । विः पक्षी गरुडस्तेन श्वयति गच्छतीति वा । विशेषेण श्वयति व्याप्नोतीति वा। विशेषेण वर्धत इति वा । टोश्वि गतिवृद्ध्योरिति धातुः । वायुमन्तर्यामितया वर्तयतीति विश्वशब्दोपपदात् वृतु वर्तन इत्यतो डः । लोपः समान इति वलोपः । गुहाशयां निहिताः सप्तसप्तेतिवत् ।

विश्वं जगद्वर्तयतीति वा । विश्वस्य कारणत्वाद्वा । कार्यकारणयोरेकशब्दव्यवहृतिर्भवेदिति शब्दनिर्णये । जीवनियामकत्वाद्वा शरीरेषु प्रविष्टत्वाद्विश्वो जीव उदीर्यते । जीवस्य तदधीनत्वाद्विष्णुर्विश्व इति स्मृत इत्युक्तेः । विशिष्टसुखज्ञानरूपत्वाद्वा । विशिष्टसुखबलरूपत्वाद्वा । विश्वं सुबलरूपत्वादित्युक्तेः । अत्र प्रमाणे सुशब्दः सुखवाची । स्वित्यानन्दः समुद्दिष्ट इत्युक्तेः सर्वव्यापित्वाद्विष्णुः । विष्लृ व्याप्ताविति धातुः । सर्वप्रवेशित्वाद्वा । विश् प्रवेशने । त्रिविक्रमरूपेण पादक्रमणाद्विष्णुः । गत्यर्थाद्वयतेः कर्त्रर्थकष्णुप्रत्ययः ॥ वर्तन्त इति वाः वृतु वर्तने । षट् ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि यस्मिन् स वषट् । षड्गुणत्वेन वर्तत इति वा । वषडित्याक्रियत इति वषट्कारः भूतभव्यभवतां अतीतागामिवर्तमानानां प्रभुः । भूतं प्रभूतं मङ्गलं यस्मात्स भूतभव्यः स चासौ भवत्प्रभुश्चेति भूतानि कृन्ततीति भूतकृत् । कृति छेदने । भूताद्युपद्रवपरिहर्तेत्यर्थः भूतानि प्राणिनः करोतीति वा भूतस्रष्टेत्यर्थः भूतानि बिभर्तीति भूतभृत् भावयति जगद्त्पादयतीति भावः । भाः कान्तीः अवतो ददाति चन्द्रादिभ्य इति वा । भानि नक्षत्राण्यवति प्रविशतीति वा । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगतिप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छा दीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिष्विति धातुः भूतात्मा भूतनियामकः । भूतस्वरूप इति व्याख्यानं तु पूर्वोत्तरनामविरुद्धम् । भुवि तः व्याप्तः स चासावात्मा चेति वा भूतानां भावान्मनांसि नयतीति भूतभावनः । भूतानि भावयतीति वा । भुवि ऊता भा यस्य स भूतभः स चासाववतीत्यवनश्चेति वा ॥१॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः ।

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥२॥

भा॰ – ॥ पूतात्मेति । पूता आत्मानो जीवा यस्मात् । पूतानामात्मा मनो यस्मिन्निति वा । पूतश्चासावात्मा च

परम उत्तमः । परः शत्रुर्मीयते हिंस्यते येनेति वा स चासावात्मेति । परा च सा मा च परमा । यद्वा पातीति पा । पा च सा रमा च परमा तस्यात्मा पतिः । आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेदित्यनुव्याख्यानोक्तेः । यद्वा स्वीयतया भृत्यानादत्त इत्यात्मा । तदुक्तं भागवते – यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते इति । यद्वा तनु विस्तारे मा निर्माण इति धातुभ्यामात्तनिर्माणाद्वा आङ्पूर्वाभ्यां तनु विस्तारे माङ् मान इति धातुभ्यामात्तज्ञानाद्वाऽत्मा । तदुक्तं बृहद्भाष्ये – अततत्वात्तथाऽत्तृत्वादात्माऽसौ ब्रह्मणः स्मृतः । आदानादात्तनिर्माणादात्तज्ञानात्तथैव चेति सूत्रभाष्ये तु – यो गुणैः सर्वतो हीनः सर्वदोषविवर्जितः । हेयोपादेयरहितः स आत्मेत्यभिधीयते तत्रैवान्यत्र – सर्वान्गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैवेति ॥ मुक्तानां परमागतिः । षष्ठ्या अलुक् । प्रियादिगणपाठमभिप्रेत्य पुंवद्भावाभावः । आगतिरिति वा । उत्तमगम्य इत्यर्थः ॥ अवेः सूर्यस्यायो गमनं यस्मादित्यव्ययः । अविर्मेषस्तद्वच्छत्रून्प्रति गमनं यस्येति वा । पुर् अग्रगमन इत्यतः पुरुषः सृष्टेः प्राग्विद्यमानः । पुरुर्बहुलः षः चेष्टा यस्येति वा । षकारः प्राण आत्मेति श्रुतेः । पुरु बहुदैत्यनाशकत्वाद्वा षोऽन्तकर्मणीति धातोः । पुरु पूर्णं मोक्षाख्यं फलं स्वात्मानमेव सनोति ददातीति पुरुष इति भागवतटीका साक्षादीक्षत इति साक्षी । साक्षाद्द्रष्टरि संज्ञायामिति स्मृतेः क्षीयते स्थीयते भगवताऽत्रेति क्षेत्रमित्युच्यते । क्षि निवासगत्योः । क्षेत्रं जानातीति क्षेत्रज्ञः। क्षेत्रस्य प्रमाणप्रसिद्धाव्यक्तादिशरीरस्य ज्ञस्तथा । न क्षरतीत्यक्षरोऽविनाशी । अक्षेष्वक्ष्यादीन्द्रियेषु रमत इति वा । क्षि क्षय इति धातोः क्षं नाशः । न विद्यते क्षं यस्य तदक्षं वैकुण्ठादि तद्राति ददातीति वा तत्र रमत इति वा ॥ २ ॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥३॥

भा॰ – ॥ योग इति । युज्यते हृदि योगिभिर्ध्यायत इति योगः । युनक्ति गुणान्स्वस्मिन्निति वा । भक्तानां भवतरणोपाय इति वा योगं समाधिं विदन्तीति (जानन्ति) योगविदो भक्तास्तेषां नेता मोक्षफलं प्रापयितेति योगविदां नेता प्रधानं प्रकृतिः पुरुषा जीवास्तेषामीश्वरत्वात्प्रधानपुरुषेश्वरः । प्रकृष्टे धाने धारणपोषणे यस्मात्स प्रधानः । पुरुषेति तादर्थे सप्तमी । चतुर्मुखार्थमश्वःसन् ऋगादिविद्यां रातीति पुरुषेश्वरः । सप्तम्या अलुक् । प्रधानश्चासौ पुरुषेश्वरश्चेति वा ॥ २० ॥ नारसिंहवपुः नरसिंहयोरिदं नारसिंहं वपुर्यस्य स तथा श्रीमान् शंरूपे वायौ रतत्वाच्छ्रीः भारती लक्ष्मीः कान्तिर्वा श्रीः स्वामित्वेन वा भर्तृत्वेन वाऽधारत्वेन तद्वान् कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः । को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गसंभूतौ ततः केशवनामवानिति हरिवंशे रुद्रेण कैलासयात्रायां निरुक्तत्वात् । हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवानिति वचनान्तराच्च । प्रशस्ताः केशा अस्य सन्तीत्यर्थे केशाद्वोऽन्यतस्यामिति व प्रत्ययः । केशिनं हन्तीति वा । विष्णुपुराणे यस्मात्त्वयैव दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनाम्ना त्वं लोके ज्ञेयो भविष्यसीति कृष्णं प्रति नारदोक्तेः । अथवा सूर्यस्य तपतो लोकानग्नेः सोमस्य वाऽप्युत । अंशवो यत्प्रकाशन्ते मम ते केशसंज्ञिताः । सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तम इति मोक्षधर्मोक्तेः । केशोऽशुमानिति वा । पुरुषाणामुत्तमः पुरुषोत्तमः । न निर्धारण इति षष्ठीसमासनिषेधो न भवति । अथवा पुरुषोत्तम इति सप्तमीति योगविभागात्सुप्सुपीति वा समासः । पुरुषाभ्यामुत्तम इति वा पञ्चमी भवति । अत्र योगविभागात्समासः । अक्षरादपि चोत्तम इति गीतोक्तेः ॥३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥४॥

भा॰ – ॥ सर्व इति । वाच्यतया वेदाख्यरवसहितत्वात्सर्वःनिर्वचनत्वाद्रेफोत्तराकारलोपः । सर्वव्यापित्वाद्वा । सर्वं समाप्नोषि ततोऽसि सर्व इति गीतोक्तेः । अथवा सर्वस्रष्टृत्वादनिमित्तेन सर्वशब्दवाच्यः । स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता । यतः सर्वस्य तेनाहं सर्वोऽसीत्यृषिभिः स्तुत इति गीताभाष्योक्तेः

शृणातीति शर्वः । शृ हिंसायाम् । अयोग्यानां शम्रोधनाद्वा शर्वः । शर्वः शंरोधनाद्धरिरिति भाष्योक्तेः शिवं मङ्गलमस्यास्तीति शिवः । अर्शाद्यच् । शिवयतीति वा । तत्करोतीति ण्यन्तात् पचाद्यच् । शं सुखमेषामस्तीति शिवा मुक्तास्तान्वर्तयतीति वा तिष्ठतीति सर्वत्रेति स्थः स्थश्चासावणुश्चेति स्थाणुः । यद्वा स्थाणुरिति सूत्रात्स्थाधातोः णुप्रत्यये स्थिरत्वात्स्थाणुः । शिवेऽन्तर्यामितया तिष्ठतीति शिवस्थाणुरित्येकं पदं वा भूतानामादिः कारणं भूतादिः । भूतैरादीयत पादीयत इति वा । भूतानामादिर्भक्षक इति वा । अद् भक्षणे निधीयते हृदि सज्जनैरिति निधिः ॥३०॥ अवौ सूर्ये अयति गच्छतीत्यव्ययः । ध्येयः सदा सवितृमण्डलमध्यवर्तीत्युक्तेः । प्रीत्यर्थादवतेर्विच् । अवा प्रीत्या यान्ज्ञानिनः प्रति यातीति वा सम्यग्भानि नक्षत्राणि वर्तयतीति सम्भवः भावमभिप्रायं नयतीति भावनः । भया सूर्यादिगतस्वभासा आवयति ज्ञापयति पदार्थानिति वा । भानां कान्तीनामवनं प्राप्तिर्यस्येति वा । न विद्यते भावनमुत्पादनं यस्येति वा पोषकत्वादभर्ता प्रकृष्टा भा ययोस्तौ प्रभौ सूर्यचन्द्रौ तौ वर्तयतीति प्रभवः । प्रकृष्टो भवो येनेति वा प्रकर्षेण भवतीति प्रभुः ईशनसीलत्वादीश्वरः । ईशेभ्यो वर इति वा ॥४॥

स्वयम्भूः सम्भुरादित्यः पुष्कराक्षो महास्वनः ।

अनादिनिधनो धाता विधाता धातुरुत्तमः ॥५॥

भा॰ – ॥ स्वयम्भूरिति । स्वयमेव भवतीति स्वयम्भूः शं सुखं भावयतीति शम्भुः आदित्यस्थत्वादादित्यः । आदिश्चासौ त्यश्चेति व्युत्पत्त्या सूर्यान्तर्गतरूपेण पृथिवीरसं गृह्णानो यातीति वा । तदुक्तमृग्भाष्ये । आदित्यस्थत्वात्स आदित्य आददानः प्रयाति वेति । उपेन्द्ररूपेणादितिपुत्रत्वाद्वा ॥ ४०॥ पुष्करं कमलं तद्वदक्षिणी यस्य सः पुष्कराक्षः । रलयोरभेदात् पुष्कलान्यक्षीणि यस्येति वा । सहस्राक्षः सहस्रपादिति श्रुतेः पुष् पुष्टावित्यतः पुषं पुष्टिं करोतीति पुष्करः । न विद्यते क्षं नाशो यस्येत्यक्षः पुष्करश्चासावक्षश्चेति वा । न विद्यते स्वं धनं येषां ते अस्वास्तान्नयति स्वमित्यस्वनः । महांश्चासावस्वनश्चेति महास्वनः । महांश्चासावसुश्चेति महाऽसुर्वायुस्तमनयतीति वा । गम्भीरस्वनो वा । न विद्यते आदिनिधने यस्य सोऽनादिनिधनः । अनस्य मुख्यप्राणस्यादिनिधने यस्मादिति वा । अनं मुख्यप्राणमनतीत्यनात् । एः कामस्य निधनं यस्माद्रुद्रान्तर्यामि नृसिंहरूपादिति इनिधनः । अनाच्छासाविनिधनश्चेति वा । नादो भगवद्विषयगानादिरूपो येषामस्तीति नादिनस्तेषां निधनं यस्मात्स नादिनिधनः स न भवतीत्यनादिनिधन इति वा गानप्रियत्वात् धाता धारणपोषकश्च । डुधाञ् धारणपोषणयोः । धाता विधाता परमोत सन्दृगिति श्रुतेः विर्गरुडो धाता धारको यस्येति विधाता । विगतौ धातारौ धारकपोषकौ यस्येति वा । वीनां विशिष्टानां मुक्तानां धारकत्वाद्वा धातुभिस्तदुपलक्षितशब्दैरुवते शब्द्यत इति धातुरुत् । अतिशयेन धातुरुत् धातुरुत्तमः । धातुभिस्तत्प्रकृतिकाख्यातादिभी रौति व्यवहरतीति धातुरुत् हनुमांस्तेन तम्यते इष्यत इति वा धातुश्चतुर्मुखादुत्तम इति वा ॥५॥

अप्रमेयो हृषिकेशः पद्मनाभोऽमरप्रभुः ।

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥६॥

भा॰ – ॥ अप्रमेय इति । न विद्यन्ते प्रमातुं योग्याः परिच्छिन्ना गुणा यस्यासावप्रमेयः । प्रमितसर्वज्ञत्वेन न विद्यते प्रमेयं ज्ञातव्यं यस्येति वा । ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेर्त्युक्तेः प्रकृष्टा मेया भक्तज्ञेया गुणा यस्यासौ प्रमेयः । अश्चासौ प्रमेयश्चेति प्रकृष्टा च सा मा च प्रमा लक्ष्मीस्ताम् इं विस्मयं यापयतीति प्रमेयः । अश्चासाविति प्राग्वत् हृष् तुष्टावित्यतो भावे कप्रत्यये हृषो हर्षः सोऽस्यास्तीति हृषी ई रमा को ब्रह्मा च ईकौ तयोरीशः ईकेशो हृषी चासावीकेशश्चेति हृषिकेशः । हृषिण ईकेशा रमाब्रह्मरुद्रा येनेति वा । हृषिकाणीन्द्रियाणि तेषामीश इति वा । पद्मं नाभौ यस्यासौ पद्मनाभः । पदोर्मा यस्यासौ पद्मः नाभे राज्ञोऽयं वृषभरूपेणेति नाभः । न विद्यते अभा अप्रकाशो यस्येति वा नाभः । पद्मश्चासौ नाभश्चेति वा । गत्यर्थादमतेर्भावेऽचि अमं ज्ञानं राति ददातीत्यमरः । न विद्यते मा मितिर्यस्य स तदमम् । अमं रं रमणं यस्येति वा । अस्य विष्णोर्मा ज्ञानं येषां ते अमास्तान् रायतीति वा । प्रकर्षेण भवतीति प्रभुः । अमरश्चासौ प्रभुश्चेत्यमरप्रभुः ॥५०॥ विना गरुडेन शुवति गच्छतीति विशुः । न विद्यते कर्म बन्धकं यस्येति वा न विद्यते कर्म क्लिष्टं यस्येति वा अकर्मा । विशुश्चासावकर्मा चेति विश्वकर्मा । विश्वं कर्म यस्मादिति वा । न ऋते तत्क्रियत इति श्रुतेः अवबोधरूपत्वान्मनुः त्वष्टा दीप्तः स्थविष्ठोऽत्यन्तस्थूलः स्थविरो वृद्धः प्रवयाः स्थविरो वृद्धः इत्यमरोक्तेः ध्रुव स्थैर्य इत्यतो ध्रुवः स्थिरः ॥६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥७॥

भा॰ – ॥ अग्राह्य इति । साकल्येन ग्राह्यो न भवतीत्यग्राह्यः । सर्वस्यापि गृहीतत्वेनन विद्यते ग्राह्यं यस्येति वा । ग्रह उपादाने । ग्राह्यो न भवतीत्यग्राह्यः । अह व्याप्तावित्यतो ण्यत् । आह्यो गुणैर्व्यापनीयोऽग्रश्चासावाह्यश्चेति वा शाश्वतः सदैकरूपः नियमनादिना सकललोककर्षणात्कृष्णः । तच्चोक्तम् । यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिन इति महाकौर्मे लोहिते रक्ते स्वभावात्सलक्षणे हिरण्यकशिष्वादिशत्रुषु कोपाद्वा रक्ते अक्षिणी यस्य स लोहिताक्षः ॥६०॥ प्रतर्दनः शत्रुहिंसकः प्रकर्षेण भवतीति प्रभुः । ऊ तन्तुसन्ताने द्रौपद्यर्थे यस्मात्स प्रभूतः । प्रकर्षेण भवतीति प्रभुः । स चासौ गुणैरूतो व्याप्तश्चेति वा । प्रकृष्टानि भूतान्याकाशादीनि यस्मादिति वा । आत्मन आकाशः संभूत इत्यादिश्रुतेः तिस्रः ककुभो धाम गृहं यस्य तत्त्रिककुब्धाम । त्रिककुद्धामेति पाठे तथैवासं त्रिककुदो वाराहं रूपमास्थितः । त्रिककुत्तेन विख्यातः शरीरस्य प्रभावनादिति मोक्षधर्मोक्तेः त्रयः ककुदो वराहावतारे भुद्वयं कन्दमूलं चेति यस्य तत्तथेत्यर्थः पुनातीति पवित्रम् । कुलिशं भिदुरं पविरित्यभिधानात्पविवद्वज्रवत्त्रायत इति वा । पवित्रं चरणं चक्रं लोकद्वारं सुदर्शनम् । पर्यायवाचका ह्येते चक्रस्य परमात्मन इति श्रीपञ्चरात्रशास्त्रोक्तेः । पवित्रं चक्रमस्यास्तीति वा मङ्गलं कल्याणरूपम् दातृतया मङ्गलबत्त्वाद्वा परं सर्वोत्तमं सर्वविलक्षणं वा ॥७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥

भा॰ – ॥ ईशान इति । ईशं रुद्रमानयति चेष्टयतीतीशानः । ई लक्ष्मीस्तस्याः शं सुखं यस्मात्स ईशः । अनः अनस्यायं स्वामी आनः ईशश्चासावानश्चेति वा । मुक्तचेष्टकत्वाद्वा । ईशानामपि मुक्तानामीशानः सोनताच्छ्रुत इति माण्डूकभाष्योक्तेः । प्राणान्ददातीति वा । प्रकर्षेणाणं सुखविरुद्धदुःखं द्यति खण्डयतीति वा । प्रकृष्टचेष्टकत्वाद्वा प्राणः ज्येष्ठः श्रेष्ठो गुणैः कालेन वा वृद्धतमः प्रशस्ततमः प्रशस्यतमः प्रजापालकत्वात्प्रजापतिः प्रजानां पालनाद्विष्णुः प्रजापतिरितीर्यत इति षट्प्रश्नभाष्योक्तेः । प्रकर्षेण जनयतीति प्रजः । न विद्यते पतिर्यस्य सोऽपतिः । प्रजश्चासावपतिश्चेति वा प्रजापतिः ॥७०॥ हर्य गतिकान्त्योरित्यस्माद्धर्यतेऽनेन क्षान्तिरिति व्युत्पत्त्या हिरण्यं सुवर्णात्मकं ब्रह्माण्डं गर्भे यस्य स हिरण्यगर्भः स्वरादित्वादव्ययात्मकऋशब्दवाच्यस्वर्गे भान्तीति ऋभा देवा भुवं गच्छन्तीति भूगा ऋभा यस्मात्स भूगर्भः । भूगर्भे यस्येति वा माया धवो माधवः । मधोरयं तद्वंशत्वाद्वा । न विद्यते धवो यस्येति वा । मध्वित्यानन्द उद्दिष्ट इत्युक्तेर्मधुः सुखं सुष्ठु दं कर्म ज्ञानं वा येषां ते सूदाः । अ इत्युक्तः परो विष्णुरेभ्यः उच्चः स एव तु । त उदा जीवसङ्घाः स्युरिति तैत्तिरीयभाष्योक्तेरुदा जीवाः । शोभनाश्च त उदाश्चेति वा सूदाः सज्जीवाः । मधु सूदान्नयतीति मधुसूदनः । मधुं सूदयतीति वा मधुसूदनः । षूद क्षरणे ॥८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥९॥

भा॰॥ ईश्वर इति ईशेभ्यो ब्रह्मादिभ्यो वर ईश्वरः । अस्य स्त्री ई लक्ष्मीः श्वा वायुः । श्वा वै वायुः श्वसनादिति ऋग्भाष्योक्तेः । ईश्वभ्यां राजत इति वा विक्रमोऽस्यास्तीति विक्रमी । क्रमस्तारतम्यमस्यास्तीति क्रमी । विप्रिय इत्यादिवत् । विशब्दो नञर्थे । न क्रमी विक्रमी स्वावतारेषु तारतम्यरहित इति वा धनुरस्यास्तीति धन्वी मेधाऽस्यास्तीति मेधावी विशेषेण क्रमः पादविक्षेपो यस्यासौ विक्रमः । क्रमु पादविक्षेपे इति धातोः । क्रमदेवत्वात्क्रमः । स्पष्टं चैतदैतरेयभाष्ये । पृथिवीस्थो वराहस्तु संहिता देवतोदिता । दिविष्ठो वामनश्चैव संप्रोक्ताः पददेवताः । नृसिंहस्त्वन्तरिक्षस्थो भगवान्क्रमदेवेति ॥८०॥ न विद्यते उत्तमो यस्मादित्यनुत्तमः । न विद्यते नुत्प्रेरको यस्य सोऽनुत् । नुद प्रेरणे । अतिशयेनानुत् अनुत्तमः । नुत्तनुन्नास्तनिष्ठ्यूता विद्धक्षिप्तेरिताः समा इति कोशात् । नुत्ता तिरस्कृता न नुत्ताऽनुत्ता अतिरस्कृता मा संपज्जञानं वा यस्येति वा । क्लिन्नं तिमितं समुन्नमुत्तं चेत्यमरोक्तेः । अनुत्ता अक्लिन्ना रमा यस्येति वा आधर्षयितुमशक्यो दुराधर्षः । श्रुतिस्मृती हरेराज्ञे इत्युक्तेः कृतं कर्म ज्ञापयतीति वा । कृतं स्वाराधनरूपमुपकारं जानातीति वा । कृतान्नित्यान्सर्वपदार्थान् जानातीति वा कृतज्ञः । कृता उत्पादिता ज्ञा जीवा येनेति वा । यतो वा इमानि भूतानीति श्रुतेः प्रयत्नरूपत्वात्कृतिः आत्मा विरिञ्चः सुमनाः सुधौतश्चेति कथ्यत इति वचनादात्मा चतुर्मुखस्तदस्वानात्मवान् । आत्मा देहो नित्यमस्यास्तीति वा ॥९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥

भा॰ – ॥ सुरेश इति । सुरा समुद्रोत्था येषामस्तीति सुराः । सुष्ठु राजन्त इति वा । राजृ दीप्तौ । सुराणामीशः सुरेशः शरणमाश्रयः रक्षिता वा । शरणं गृहरक्षित्रोरित्यमरः शर्म शृणात्यशुभं शॄ हिंसायाम् विश्वरेता जगत्कारणम् । भुवस्य रेतो विष्णोरिति श्रुतेः वश्वो वायुस्तत्कारणं वा । विश्वो वायुः समुद्दिष्ट इत्युक्तेः प्रजनयन्तीति प्रजा भगवतो ज्ञापयितारः । इन्द्र एकं सूर्य एकं जजानेति श्रुतेः । यस्ता विजानात्स पितुः पितासदिति श्रुतेः । न विद्यते भव उत्पत्तिर्यस्मिन्यस्येति वा अभवो वैकुण्ठादिः । प्रजानामभवो यस्मात्स प्रजाभवः । प्रजानां भव उत्पत्तिर्यस्मादिति वा । प्रजाश्च भानि च तानि वर्तयतीति वा ॥९०॥ हन्यमानत्वात् हः जीवः स न भवतीतयहः । हेयो न भवतीति वाऽहः ।ओहाक् त्याग इति धातोः संवत्सरः संवसत्यत्रेति संवत्सरः व्यालः वि आङ्पूर्वात् अड उद्यम इति धातोः अच्प्रत्यये डलयोरभेदे व्यालः । भक्ताभीष्टदानोद्योगवान् । अलम्भूषणपर्याप्तिवारणेष्विति धातोरच्प्रत्यये निष्पन्नालशब्दात् समूहार्थ अणि अलानां भूषणानां समूह आलम् कौस्तुभादिकं विशेषेणालं यस्येति वा । विशेषेणालति सृष्ट्यादिकार्ये पर्याप्तो भवतीति वा । शत्रून्वारयतीति वा । विशेषेणासमन्ताज्जगतः क्षयो यस्मादिति वा । लीङ् श्लेषण इत्यतो डप्रत्यये विशेषेणासमन्तात् श्लेषो यस्येति वा । लस् प्रकाशन इत्यतो भावे डप्रत्यये विशेषणासमन्तात् प्रकाशनं यस्येति वा प्रत्ययो ज्ञानरूपः प्रति विषयान् अयते जानातीति । अय पय गताविति धातोः । सर्वविषयकत्वात् सर्वं दर्शनं यस्यासौ सर्वदर्शनः । ईश्वरः सर्व ईशान इति द्विरूपकोशात् षर्व हिंसायामित्यतः पचाद्यचि धात्वादेः षः स इति सत्वे च सर्वो रुद्रस्तस्य दर्शनं ज्ञानं यस्मादिति वा । सर्वे च ते दर्शाश्चामावास्याश्च तेषु हविरादिकं नयतीति सर्वदर्शनः ॥१०॥

No comments:

Post a Comment