Wednesday, March 29, 2017

Sanskrit joke

कस्मिन्चित् आरामे अनेका वानरा: आसन्। तस्य परिपालनम् एक आरामिक अकुरुत। 

यदा वानरा बहव वर्षा आरामे स्थिता: तदा आरामिकेन तेषां मित्रत्वम् अवर्धत। वानरा: आरामिकस्य क्रिया: दृष्ट्वा तेsपि ता अनुकुर्वन् अरमन्। 

कदाचित् आरामिक: वानरान् आह्वयित्वा स्वस्य सन्निविष्टग्रामं गन्तुं विषयमवदत्। 

यद्यपि वानरा: सन्तुष्टा अभवन् , तेभ्य: एका समस्या आसीत् । सा तु वृक्षेभ्यो जलस्य मानं कथं निर्णयेत्? मूलस्य मानमुद्दिश्य वृक्षं परि सिञ्चति इति उद्यानपाल: उपायमददत् । 

सन्निविष्टग्रामात् पुनरागत्य आरामिक: उद्यानस्य स्थितिं दृष्ट्वा आश्चर्यचकित: आसीत् । प्रत्येक तरो: वृक्षस्य च मूलं लुञ्चितं वानरै: । मूलानां मानं ज्ञातुं एतत् कार्यं कृतम् । 

निष्ठान्त: 

नि:सामर्थ्यान् प्रति उत्तरदायित्वं यच्छेत् तर्हि एष: परिणाम: एव भवति। 

अस्माकं राज्यस्य (तमिल्नाडु) स्थिरपि एवमेव भविष्यति । 😔😔😔

तमिल्भाषायां प्राप्तस्य सन्देशस्य अनुवाद: ।

No comments:

Post a Comment