Monday, June 15, 2015

Sri Subrahmanya pancaratnam

http://vedabhavan.org/sri-subrahmanya-pancharatnam/

57_big[1]

श्रीसुब्रह्मण्यपञ्चरत्नम्

षडाननं चन्दनलेपिताङ्गं
महामतिं दिव्यमयूरवाहनम् ।
रुद्रस्य सूनुं सुरलोकनाथं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥

जाज्वल्यमानं सुरबृन्दवन्द्यं
कुमारधारतटमन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं
त्रयीतनुं शूलमसिं दधानम् ।
शेषावतारं कमनीयरूपम्
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥

सुरारिघोराहवशोभमानं
सुरोत्तमं शक्तिधरं कुमारम् ।
सुधारशक्त्यायुधशोभिहस्तं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥

इष्टार्थसिद्धिप्रदमीशपुत्रं
मिष्टान्नदं भूसुरकामधेनुम् ।
गंगोद्भवं सर्वजनानुकूलं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥

यः श्लोकपञ्चकमिदं पठतीह भक्त्या
ब्रह्मण्यदेवविनिवेशितमानसः सन् ।
प्राप्नोतिभोगमखिलं भुवि यद्यदिष्टं
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ६ ॥

No comments:

Post a Comment