courtesy; sri.bryan hill
हरिः ॐ । पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतमात्मन्येवात्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म तत् स्त्रियाम् आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति साऽस्यैतमात्मानमत्र गतं भावयति सा भावयित्री भावयितव्या भवति तं स्त्रीगर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति स तत् कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येतेषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥
" # He i.e., Lord nArAyaNa enters into man through food. This food becomes retas(sperm) in man. This retas is the essence arising out of all the limbs of man. This is held in oneself. When this retas is released in woman, then it is the first birth. This retas becomes a part of the woman as her other limbs. Therefore, the husband should not trouble her. The woman should take care of her womb. She should think that the Lord is present in it. The woman who thinks this way should be taken care of by her husband. He who respects the son in the womb, respects the Lord present in him. He obtains the benefit of all the worlds. He occupies the earth. The birth on earth from the mother's womb is the second birth. "
# अयं नारायणो देवः पुरुषे प्रथमं विशेत् । अन्नस्थोऽन्नेन सहितः तस्मिन् रेतस्त्वमागते ॥
तस्मिंस्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ।
स्त्रियां सिञ्चति तस्यैव स्थानान्तरगते प्रभोः । प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ।
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म तदुक्तमृषिणा –
*ॐ गर्भेऽनुसन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति ॥
गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥२.५.१॥
" The Lord present in the son remains on the earth for some time to get the good things done for the father. Then the Lord present in the father leaves him along with his jIva and goes to the other world. When he is born in another place that is the third birth. This fact i.e., The Lord being born when the jIva is born is sung by the seer as follows:
oM garbhe.anusannanveshhAmavedamahaM devAnAM janimAni vishvA shataM mA pura AyasIraraxannadhaH shyeno javasA niradIyamiti
Being present in the womb only I know that the birth, etc., of the Lord are free from any sorrow etc., Lord vishhNu's hundreds of forms protected me. I came out of my mother's womb safely because of the protection given by the Lord. vAmadeva lying in the womb said this.
One who knows this arises from his body through brahmanADI and obtains all his desires in vaikuNTHa. He becomes immortal, he becomes immortal. "
*
(१) पुरः पूर्णाः आयसीः आयस्यः विशेषतो ज्ञानिन्यः शतं शतसंख्याकाः विष्ण्वाद्याः देवताः माम् अरक्षन् ।
(२) श्येनः सन् विष्णुं स्वामिनं ज्ञात्वा आनन्दज्ञानादिपूर्णत्वात् श्यः विष्णुः स एव इनः स्वामी यस्यासौ तथोक्तः सन् जवसा वेगेन निरदीयं मातुरुदरात् निर्गत्य गर्भमतीतोऽस्मि ।
(३) गर्भे शयानः वामदेवो नाम ऋषिः एतदुवाच ऊर्ध्वः सन् उत्क्रम्य ब्रह्मनाड्या उत्क्रान्तो भूत्वा ।
knr
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
No comments:
Post a Comment