===============
Here is a work dealing exclusively with Sanskrit Samasa.
It is known as samAsachakram.
The author is unknown.
Hope you like them..
May some scholar from this group make a commentary on it in English
for the good of larger population. We can have discussion on the work
verse by verse...
Let's explore this work
समासचक्र
षोढा समासः संक्षेपाद् अष्टाविंशतिधा पुनः ।
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा ॥१
तत्राष्टधा तत्पुरूषः सप्तधा कर्मधारयः ।
सप्तधा च बहुव्रीहिर्द्विगुराभाषितो द्विधा ॥२
द्वन्द्वोऽपि द्विविधो ज्ञेयोऽव्यवीभावो द्विधा मतः ।
तेषां पुनः समासानां प्राधान्यं स्याच्चतुर्विधम् ॥३
चकारबहुलो द्वन्द्वः स चासौ कर्मधारयः ।
यस्य येषां बहुव्रीहिः शेषस्तत्पुरुषः स्मृतः ॥४
प्रयोगाः पञ्चविधाः
कर्तृकर्मक्रियायुक्तः प्रयोगः स्यात्सकर्मकः ।
अकर्मकः कर्मशून्यः कर्मद्वन्द्वो द्विकर्मकः ॥५
(१) सकर्मकप्रयोगो यथा – कृष्णो भक्तान् रक्षति ।
(२) अकर्मकप्रयोगो यथा – कृष्णस्तिष्ठति ।
(३)कर्मणिप्रयोगो यथा – विष्णुना प्रपञ्चः क्रियते ।
(४) भावेप्रयोगो यथा – कृष्णेन क्रियते ।
(५) द्विकर्मकप्रयोगो यथा – (नृपः) धराम् अन्नं दुदोह ।
इति प्रयोगविधिः
अथ समासविधिः
समासाअः षड्विधाः । तत्पुरुषः कर्मधारयो
बहुव्रीहिर्द्विगुर्द्वन्द्वोऽव्यवीभावश्चेति भेदात् । तल्लक्षणानि तु -
(१) पूर्वपदार्थप्रधानोऽव्यवीभावः ।
(२) उत्तरपदार्थप्रधानस्तत्पुरुषः ।
(३) उभयपदार्थप्रधानो द्वन्द्वः ।
(४) अन्यपदार्थप्रधानो बहुव्रीहिः ।
(५) द्विगुकर्मधारयौ तत्पुरुषभेदौ ।
(१) तत्पुरुषः।
तत्राष्टधा तत्पुरुषक्रमः। प्रथमातत्पुरुषो
द्वितीयातत्पुरुषस्तृतीयातत्पुरुषश्चतुर्थीतत्पुरुषः पञ्चमीतत्पुरुषः
षष्ठीतत्पुरुषः सप्तमीतत्पुरुषो नञ्तत्पुरुषश्चेति ।
तत्र प्रथमातत्पुरुषो यथा-
- अर्धं पिप्पल्याः अर्धपिप्पली।
- पूर्वं कायस्य इति पूर्वकायः।
द्वितीयातत्पुरुषो यथा-
- कृष्णं श्रितः इति कृष्णश्रितः।
-ग्रामं ततो इति ग्रामगतः।
- कान्तारम् अतीतः इति कान्तारातीतः।
तृतीयातत्पुरुषो यथा -
- शङ्कुलया खण्डः इति शङ्कुलाखण्डः।
- धान्येन अर्थः इति धान्यार्थः।
चतुर्थीतत्पुरुषो यथा –
- यूपाय दारु इति यूपदारु ।
- कुण्डलाय हिरण्यम् इति कुण्डलहिरण्यम् ।
- गुरवे दक्षिणा इति गुरुदक्षिणा ।
पञ्चमीतत्पुरुषो यथा -
- अर्थात् अपेतः इति अर्थापेतः ।
- सिंहात् भयम् इति सिंहभयम्।
- वृश्चिकात् भीः इति वृश्चिकभीः ।
षष्ठीतत्पुरुषो यथा -
- कृष्णस्य भक्तः इति कृष्णभक्तः ।
- आम्रस्य फलम् इति आम्रफलम् ।
- राज्ञः पुरुषः इति राजपुरुषः ।
सप्तमीतत्पुरुषो यथा –
- अक्षेषु शौण्डः इति अक्षशौण्डः ।
- कर्मणि कुशलम् इति कर्मकुशलः ।
- विद्यायां निपुणः इति विद्यानिपुणः ।
नञ् तत्पुरुषो यथा –
- न ब्राह्मणः इति अब्राह्मणः ।
- न वृषभः इति अवृषभः ।
- पापाभावः इति अपापम् ।
- धर्मविरुद्धः इति अधर्मः ।
इति तत्पुरुषः
अथ कर्मधारयः
स च विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमानपूर्वपद
उपमानोत्तरपदः सम्भावनापूर्वपदोऽवधारणापूर्वपदश्चेति भेदात् सप्तविधः।
(१) तत्र विशेषणपूर्वपदः कर्मधारयो यथा -
- कृष्णश्चासौ सर्पश्च कृष्णसर्पः । कृष्णौ च तौ सर्पौ च कृष्णसर्पौ।
कृष्णाश्च ते सर्पाः कृष्णसर्पाः
-रक्ता चासौ लता च रक्तलता। रक्ते च ते लते च रक्तलते। रक्ताश्च तः
लताश्च रक्तलताः।
- नीलं च तत् उत्पलं च नीलोत्पलम्। नीले च ते उत्पले च नीलोत्पले।
नीलानि च तानि उत्पलानि च नीलोत्पलानि।
(२) विशेष्यपूर्वपदः कर्मधारयो यथा – वैयाकरणश्चासौ खसूचिश्च
वैयाकरणसूचिः। गोपालश्चासौ बालश्च इति गोपालबालः|
(३) विशेषणोभयपदः कर्मधारयो यथा – शीतं च तत् उष्णं च इति शीतोष्णम् ।
(४) उपमानपूर्वपदः कर्मधारयो यथा – मेघ इव श्यामो मेघश्यामः । कम्बुवत्
ग्रीवा कम्बुग्रीवा । चन्द्रवत् मुखम् चन्द्रमुखम्।
(५) उपमानोत्तरपदः कर्मधारयो यथा – पुरुषः व्याघ्र इव पुरुषव्याघ्रः। नरः
सिंह इव नरसिंहः।
(६) सम्भावनापूर्वपदः कर्मधारयो यथा – गुण इति बुद्धिः गुणबुद्धिः ।
(७) अवधारणापूर्वपदः कर्मधारयो यथा – विद्यैव धनं विद्याधनम् । अविद्यैव
शृङ्खला अविद्याशृङ्खला ।
(८) मध्यमपदलोपी समासो यथा – शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको
ब्राह्मणः देवब्राह्मणः।
इति कर्मधारयः॥
अथ बहुव्रीहिः
स च द्विपदो, बहुपदः सहपूर्वपदः संख्योत्तरपदः, संख्योभयपदो,
व्यतिहारलक्षणो, दिगन्तराललक्षणश्चेति भेदात् सप्तविधः ।
तत्र द्विपदबहुव्रीहिर्यथा -
(१) चित्राः गावो यस्य सः चित्रगुः गोपः
(२) प्राप्तम् उदकं येन सः प्राप्तोदको ग्रमः।
(३) भुक्तम् ओदनं येन सः भुक्तौदनो राजा ।
(४) निर्जितः कामः येन स निर्जितकामः शिवः ।
(५) विभक्तं धनं यैस्ते विभक्तधना बन्धवः ।
(६) दत्तः सूपो यस्मै सः दत्तसूपो ब्राह्मणः।
(७) उद्धृतम् धनं यस्मात् तत्६ उद्धृतधनं कुण्डम्।
(८) चक्रं पाणौ यस्य सः चक्रपाणीः हरिः ।
(९) करे स्थितं धनं यस्य सः करस्थितधनो वणिक् ।
(१०) पुष्पिताः द्रुमाः यस्मिन् सः पुष्पितद्रुमः आरामः ।
(११) बहवओ यज्वानो यस्यां सा बहुयज्वा शाला ।
(१२) पुष्पिताः द्रुमाः यस्मित् तत् पुष्पितद्रुमं वनम्।
(१३) खरस्य मुखमिव मुखं यस्य सः खरमुखः तुरगः ।
(१४) उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखो यक्षः ।
(१५) उच्चैर्घटो यस्याः सा उच्चैर्घटा नारी ।
अङ्गगात्रोदरस्तनकण्ठोष्ठदन्तमुखाक्षिकेशाः स्त्रियां बहुव्रीहो ईबन्ता
भवन्ति। ते च यथा -
(१) सुन्दरम् अङ्गं यस्याः सा सुन्दराङ्गी।
(२) शोभनं गात्रं यस्याः सा सुगात्री।
(३) कृशम् उदरं यस्याः सा कृशोदरी।
(४) चारू स्तनौ यस्याः सा चारूस्तनी।
(५) इन्दीवरे इव अक्षिणि यस्याः सा इन्दीवराक्षी ।
(६) कम्बुरिवअ कण्ठो यस्याः सा कम्बुकण्ठी ।
(७) कुटिलाः केशाः यस्याः सा कुटिलकेशी ।
इतरेषाम् अङ्गादिवाचकानाम् स्त्रीत्वेऽपि आबन्त्वमेव। चारूदेहा,
विस्तृतालका, आवृतकुचा, कुन्ददशना इत्यादि।
उरुपृथुलबहुपटुऋजुस्वादुचारूमृदुशब्दानां त्रीलिङ्गविशेषणत्वे
ईबन्तत्वमपि यथा मृद्वी शाटी, लघ्वी भाषा इत्यादि ।
इति द्विपदबहुव्रीहिः॥
(२) बहुपदो यथा – अधिकः उन्नतः संसो यस्य सः अधिकोन्नतांसः।
(३) सहपूर्वपदो यथा – सह कृष्णेन वर्तत इति सकृष्णः । सह पुत्रेण इति
सपुत्रः। रामेण सह वर्तत इति सरामः।
(४) संख्योत्तरपदो यथा – दशानां समीपे ये सन्ति,ते उपदशाः।
(५) संख्योभयपदो यथा – द्वौ वा त्रयो वा द्वित्राः ।
(६) व्यतिहारलक्षणो यथा – केशेषु केशेषु गृहीत्वा इदम् युद्धम्
प्रवृत्तम् इति केशाकेशि युद्धम्।
दण्दैर्डण्डैः कृत्वा इदम् युद्ध प्रवृत्तम् इति दण्डादण्डि।
(७) दिगन्तराललक्षणो यथा – दक्षिणस्याः पूर्वस्याश्च दिशो यद्
अन्तरालम् सा दक्षिणपूर्वा ।
इति बहुव्रीहिः॥
अथ द्विगुः।
द्विगुसमासो द्विविधः – एकवद्भावी अनेकवद्भावी चेति।
एकवद्भावी द्विगुर्यथा – त्रयाणां शृङ्गाणां समाहारः त्रिशृङ्गम्।
पञ्चानां फलानां समाहारः पञ्चफली॥ अनेकवद्भावी द्विगुर्यथा – सप्त च ते
ऋषयश्च सप्तर्षयः ॥
इति द्विगुः॥
अथ द्वन्द्वः।
द्वन्द्वो हि द्विविधः। इतरेतरयोगसमाहारभेदात् ।
(१) इततेतरयोगद्वन्द्वो यथा – प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ।
रामश्च कृष्णश्च रामकृष्नौ ।
(२) समाहारद्वन्द्वो यथा – हरिश्च हरश्च गुरुश्च एषां समाहारः हरिहरगुरु।
प्राणितूर्यसेनाङ्गानां द्वन्द्वैकवद्भावः।
(१) प्राण्यङ्गे यथा – पाणी च पादौ च
knr
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
No comments:
Post a Comment