=================
Runamochana stotra
ॐ ॥ देवताकार्य सिद्धयर्थं सभास्तंभसमुद्भवम् । श्रीनृसिंहं महावीरं
नमामि ऋणमुक्तये ॥
लक्ष्म्यालिञ्गितवामाँगं भक्तानाम् वरदायकं ॥ श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
आंत्रमालाधरं शंखचक्राब्जायुधधारिणं । श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
स्मरणात्सर्वपापघ्नं कद्रूजविषनाशनं । श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
सिंहनादेन महता दिग्दन्तिभयनाशनम् । श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारणं । श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
क्रूरगृहैः पिडीतानां भक्तानामभयप्रदं । श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
वेदवेदांतयज्ञेशं ब्रह्मरुद्रादिवंदितम् । श्रीनृसिंहं महावीरं नमामि
ऋणमुक्तये ॥
य इदं पठते नित्यमृणमोचनसंज्ञितम् । अनृणी जायते सद्यो धनं शीघ्रमाप्नुयात् ॥
knr
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
No comments:
Post a Comment