Tuesday, February 1, 2011

agni - stuti sahadevakR^itena mahAbhArata, sabhAparva

Courtesy: Sri.Bryan Hill
====================
The agnistuti by pANDava sahadeva from mahAbhArata, sabhA - parva, adhyAya 32:
सहसदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् । परीतमग्निना राजन्नाकम्पत यथाऽचलः ।
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ॥४२॥
सहदेव उवाच ।
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते । मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक ॥४३॥
पावनात्पावकश्चासि वहनाद्धव्यवाहनः । वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि ॥४४॥
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो । स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी ॥४५॥
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितजसः । कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत् ॥४६॥
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे । पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे ॥४७॥
अपां गर्भ महासत्व जातवेदः सुरेश्वर । देवानां मुखमग्ने त्वं सत्येन विपुनीह माम् ॥४८॥
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि । नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् ॥४९॥
धूमकेतुः शिखी च त्वं पापहाऽनिलसंभवः । सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् ॥५०॥
एवं स्तुतोऽसि भगवन्प्रीतेन शुचिना मया । तुष्टिं पुष्टिं श्रुतं चैव प्रीतिं चाग्ने प्रयच्छ मे ॥५१॥
वैशंपायन उवाच ।
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम् । ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते ॥५२॥

knr


--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.

  Every moment, thank God

1 comment: