*वेदानाम् अपौरुषेयत्वम्* MM Sri Subrahmanyam Korada
Here is an old post ---
वेदानाम् अपौरुषेयत्वम् ----
व्याकरणम् - पूर्वमीमांसा - वेदान्तः - न्यायः - वैशेषिकम् - भारतम् - उपनिषत्
व्याकरणम् --
What is the meaning of अपौरुषेयः --
पुर अग्रगमने (तुदादिः) - 'पुरः कुषन् ' (उणादिः) - पुरुषः - 'ञ्नित्यादिर्नित्यम् ' आद्युदात्तः ।
'सर्वपुरुषाभ्यां णढञौ ' (पा 5-1-10) - पुरुषात् वधे (वार्तिकम्)
अत्यल्पमिदमुच्यते - पुरुषाद्वध इति । पुरुषात् वध - विकार - समूह - तेनकृते - ष्विति वक्तव्यम्। पौरुषेयो वधः । पौरुषेयो विकारः । पौरुषेयः समूहः । तेन कृतं पौरुषेयम् ।
(पुरुष + ढञ् = पौरुषेयम् , ' ञ्नित्यादिर्नित्यम् ' - आद्युदात्तस्वरः )
Here Panini did not mean the पुरुष of सांख्यम् etc --
Kaiyata -- पुरुषश्च लोकप्रसिद्धः पाण्यादियुक्तः इह गृह्यते । न तु सांख्यादिशास्त्रप्रसिद्धः, तत्र प्रत्ययस्यादर्शनात् ।
Therefore, अपौरुषेयम् means - not done/authored by a person/human being.
Under तेन प्रोक्तम् ( पा 4-3-101) - Patanjali says - वेदs are not authored, rather they are नित्य् ---
तेन प्रोक्तम्
प्रोक्तग्रहणम् अनर्थकम् (वा) ग्रन्थे च दर्शनात् (वा)
भाष्यम् -- छन्दो'र्थं तर्हीदं वक्तव्यम् । न हि छन्दांसि क्रियन्ते , नित्यानि छन्दांसि ।
कर्तुः अस्मरणात् तेषामित्यर्थः -- कैयटः
छ्न्दो'र्थमिति चेत्तुल्यम् (वा)
भाष्यम् -- छन्दो'र्थमिति चेत् तुल्यमेतद्भवति । ग्रामे ग्रामे कालकं कालापकं च प्रोच्यते त्त्र अदर्शनात् । न च तत्र प्रत्ययो दृश्यते ।
ग्रन्थे च दर्शनात् । यत दृश्यते ग्रन्थः सः, तत्र 'कृते ग्रान्थे' इत्येव सिद्धम् ।
ननु चोक्तम् - न हि छन्दांसि क्रियन्ते नित्यानि छन्दांसि इति ।
यद्यपि अर्थो नित्यः , या त्वसौ वर्णानुपूर्वी सा अनित्या । तद्भेदाच्चैतद्भवति - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।
Kaiyata explains --
महाप्रलयादिषु वर्णानुपूर्वीविनाशे पुनरुत्पद्य ऋषयः संस्कारातिशयात् वेदार्थं स्मृत्वा शब्दरचनां
विदधतीत्यर्थः ।
नागेशः -- काठकेत्यादि । अर्थैक्ये'पि आनुपूर्वीभेदादेव काठककालापकादिव्यवहार इति भावः।
This is what is meant by - मन्त्रकृत् (नमो वाचे या चोदिता .... नमो मन्त्रकृद्भ्यः ) ।
A caution - we must be careful in interpretation --
दृष्टं साम ( पा सू 4-2-7) ) does not mean - the साम seen by वसिष्ठ etc.
Kaiyata - कलिना दृष्टमिति । यस्य साम्नो विशिष्टकार्यविषये विनियोगो ज्ञानातिशयसंपत्त्याकलिना अज्ञायि तत्तेन दृष्टमित्युच्यते ।
वाक्यपदीयम् (46, जातिसमुद्देशः , पदकाण्डः) --
ज्ञानमस्मद्विशिष्टानां सर्वं सर्वेन्द्रियं विदुः ।
अभ्यासान्मणिरूप्यादि विशेषेष्वेव तद्विदाम् ॥
( नेदानीम् इन्द्रियैरेव पश्यन्ति । घ्राणतः शब्दं शृणोति पृष्ठतो रूपाणि पश्यति अङ्गुल्यग्रेण सर्वेन्द्रियार्थानुपलभते .... उपनिषत्) ।
At the end of every महाप्रलय (not acceptable to पूर्वमीमांसकs - यः कल्पः स कल्पपूर्वः / न कदापि अनीदृशं जगत्) - the Vedas disappear and the sages with their तपश्शक्ति and योगिप्रत्यक्षम् , would discern the वेदमन्त्रs and propagate the same - and the Mantras are named after them- मन्त्रकृतः/मन्त्रद्रष्टारः-- प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ।
वेदान्तः ---
अत एव च नित्यत्वम् ( ब्र सू 1-3-29)
शाङ्करभाष्यम् -- स्वतन्त्रस्य कर्तुः अस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधम् आशङ्क्य अतः प्रभवात् इति परिहृत्य इदानीं तदेव वेदनित्यत्वं द्रढयति - अत एव च नित्यत्वम् इति । अत एव नियताकृतेः देवादेः जगतः वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम् ।
तथा च मन्त्रवर्णः --
यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम् ( ऋग्वेदः 10-71-3) इति स्थितामेव वाचम् अनुविन्नां दर्शयति . वेदव्यासश्चैवं स्मरति --
युगान्ते'र्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वम् अनुज्ञातः स्वयंभुवा ॥इति -- महाभारतम् - शान्ति 210-19
Veda itself clearly says --
अस्य महतो भूतस्य निःश्वसितम् एतद्यद् ऋद्वेदो यजुर्वेदः सामवेदॊsथर्वाङ्गिरसः (बृहदा. उप 2-4-10)
पूर्वमीमांसा --
1-1-7-27 -- वेदांश्चैके सन्निकर्षं पुरुषाख्याः - पू प सू
Some scholars argued that Vedas are written as there are names such as कठ, कलाप etc.
28 -- अनित्यदर्शनाच्च - पू प सू
In Veda there is proof to show that it is non-eternal - there are names of some people like - बबर, son of प्रावाहणि, खुसुरविन्द son of उद्दालक, who are mortal.
29 उक्तं तु शब्दपूर्वत्वम् - सि सू
It is already stated that वेद has got अध्ययनपूर्वकत्वम् । There has been uninterrupted chain of गुरुशिष्यपरम्परा - nobody who has independently recited Veda.
30 आख्या प्रवचनात् - सि सू
काठक , कालापक etc संज्ञs due to specialization .
वैशेषिकs and नैययिकs hold that वेदs are पौरुषेय --
वैशेषिकम् --
1-1-3 -- तद्वचनात् आम्नायस्य प्रामाण्यम्
Since धर्म is defined clearly Veda is an authority.
6-1-1 बुद्धिपूर्वा वाक्यकृतिर्वेदे
6-1-2 ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्
9-2-13 - आर्षं सिद्धदर्शन च धर्मेभ्यः
Due to performance of धर्म ordained by Veda ऋषिs got the perfect knowledge of पदार्थs.
न्यायदर्शनम् --
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् - आप्तप्रामाण्यात् 1-1-68
शब्द - दीप - ज्ञानानां स्वतः प्रामाण्यम् - इति स्पष्टं लघुमञ्जूषायाम् । नैयायिकानां परतः प्रामाण्यम् तु अनवस्थादोषजुष्टत्वात् हेयमेव ।
धन्यो'स्मि
Dr.Korada Subrahmanyam
Prof of Sanskrit (Retd)
Chairman , Bharateeya Vidvat Parishat
Ph:09866110741
No comments:
Post a Comment