Thursday, March 20, 2025

Vasantotsava - sanskrit poem

वसन्तोत्सवः
(१)
हिमसमयविनाशाच्छोभते वृक्षराजिः
फलकिसलयकान्त्या सा यथा स्नातनारी।
हतहिमगुणतोयं नूतनो दर्पणो वा
हसति जगति शोभा दीप्यमाना वसन्ते।।
(२)
मृदुदलमुकुलौघः सादरं नृत्यलग्नः
कुहुकुहुकुहुरावैः कोकिलो गीतमग्नः।
प्रवहति मधुवातो भासते माधवोयं
प्रकृतिकृतिकलापो राति कस्मै न मोदम्।।
(३)
किसलयचिकुरढ्यः पक्षिरावास्यभाषो
सरलपनसवृक्षो राजते षोडशीव।
रुचिरनवफलानि द्वन्द्वभावेन तस्य
ललितहृदयभागे गोलरूपेण भान्ति।।
(४)
सरसि सलिलकोले लोलपक्षा मरालाः
सरसिजरसलोभाः सन्तरन्ति प्रमत्ताः।
युगलयुगलकोकाः शोकशून्याश्च तस्मिन् 
कलकलरवरागाः प्रोत्प्लवेव प्लवन्ते।।
(५)
कमलकुमदवासाः कामिहृत् तापयन्ते
दिशि दिशि सुमवासा वायुना त्रासयन्ते।
विविधकुसुमशोभा मानसं क्षोभयन्ते 
विहगकलनिनादा व्याधवद् भाययन्ते।।
(६)
रहसि रसिकचित्ते कामना कापि नूत्ना 
विहरति रतिनामा पुष्पवाणप्रधामा।
तदधिकबलयोगात् तद्वनान्ते वसन्ते
कथयति नवबालां राधिकां किं स कृष्णः।।
(७)
अयि रसमयि राधे बाधते कापि बाधा
कथयति रसभाषा मन्दहासा तदा सा।
प्रियतम सुमदोलां पश्य सा भाषते किं
विहसति बहुभासा पुष्पमासस्तदानीम्।।
(८)
पिकचटकमयूरं काकवाकालिशूकं
रचयति नवनृत्यं पादपे मोदचित्तम्।
विहसति परिवेषः प्राप्तवेशो वसन्ते
सुखयति रसिका सा कृष्णचन्द्रं वनान्ते।।
(९)
रसयति सुखवार्ता साधुना नः पवित्रा
प्रतिजनलपनेपि दृश्यते तस्य भाषा। 
सुरविषयविलीनास्तस्य कुर्वन्ति पर्व
नटति मनुजवृन्दं रङ्गचूर्णैः सरागम्।।
(१०)
अयि गुणमयि राधे रङ्गवर्णाढ्यकृष्ण
हर हर जनदुःखं त्वत्पदाब्जे नमामः।
चलतु सकलबाधा भारतात् सर्वदा नः
सुखशुभशममध्ये तृप्तचित्ताः हसन्तु।।
(११)
लसतु जगति देशः पर्वणि प्रेमपूर्णे
विनटतु जनतास्मिन् संस्थितं यातु दुःखम्।
हितकरमधुहोल्यां रामि नम्रं शुभेच्छां
व्रजपुरमणिराधे नौमि नित्यं व्रजोहम्।।
           (श्रीव्रजकिशोरत्रिपाठी)

No comments:

Post a Comment