Wednesday, February 19, 2025

one bangle no sound

|| *ॐ* ||
   " *वन्दे संस्कृतमातरम्* "
    " *लौकिकन्यायकोशः* " ( १२३ )
   " *कुमारीकङ्कणन्यायः* 
  सामान्यतः मनुष्यः अनेकैः सह संबन्धं स्थापयितुम् इच्छति परन्तु तस्य केनापि सह उत्तमसबन्धः न भवति । शनैः शनैः तस्य कलहः भवति । अतः अन्ते सः एकाकी वासं कर्तुम् इच्छति । कन्यायाः हस्ते एकं कङ्कणं भवति चेत् तस्य कङ्कणस्य ध्वनिरेव न भवति । तथा एकः एव भवति चेत् कलह एव न भवति इति द्योतयितुं न्यायस्य अस्यः प्रयोगः भवति ।  
     " बहूनां कलहो नित्यं द्वाभ्यां संघर्षणं तथा ।
         एकाकी विचरिष्यामि कुमारीकङ्कणं " ।। ( भागवते )
*卐卐ॐॐ卐卐*
डाॅ. वर्षा प्रकाश टोणगांवकर 
पुणे / महाराष्ट्रम्
🌹🌹

No comments:

Post a Comment