Sunday, January 19, 2025

Sri gurucharana kusumaanjali on HH Bharati Teertha Mahaswamigal

॥ श्री गुरुचरणकुसुमाञ्जली ॥
अतिभारतिमतिविभवान् जिततीर्थानाश्रिताघनिर्हरणे ।
धरणेर्देशिकचरणान् शरणं करवाणि भारतीतीर्थान् ॥

समुचिततमनामानः श्रीचरणा भान्ति भारतीतीर्थाः ।
परमा गुरवो गुरवः प्रीणन्त्येतेषु पूजितेषु परम् ॥

आनन्दे खलु वर्षे जगतामानन्दबृन्दसन्दात्री ।
आश्रमचर्या तुर्या भुवनाचार्यान् समाश्रिता वर्यान् ॥

मन्दस्मिताभिरामं मन्देतरकान्ति भूयसा तपसा ।
सदयापाङ्गं देशिकवदनं ध्यायामि भूषितं भूत्या ॥

मञ्जुलपदविन्यासं मनोहरीभूतगूढशास्त्रार्थम् ।
धर्मप्रचारचतुरं शर्मदमाचार्यभाषणं जयति ॥

रुद्राक्षभूषितायतवक्षस्स्थलशोभिचारुकाषायम् ।
दोषोज्झितभाषाचयविदुषां वपुरस्तु शान्तयेऽमीषाम् ॥

तरुणारुणसरसीरुहचरणानां देशिकेन्द्रचरणानाम् ।
कामयते मम मानसमानतनृपमौलि पादपीठत्वम् ॥

वैदुष्यं रसिकत्वं वाग्मित्वं विस्तृतं वदान्यत्वम् ।
प्रीतिर्भोगविरक्तिस्सर्वाण्येतानि भारतीगुरुषु ॥

करधृतचिन्मुद्रं वरजपमालं हंससेवितं तेजः ।
ब्रह्मणि सक्तं किञ्चन मोहतमो हन्तु भारतीनाम्ना ॥

निष्कासयितुमनङ्गं लक्ष्मीतनयं तमाद्यरसहेतुम् ।
नवमरसैकाधारान् लक्ष्मीतनयान् गुरून् भजे सर्वान् ॥

सुमधुरवाद्यनिनादं सपुलकभक्तौघपरिवृतं तेषाम् ।
आस्थानीं प्रति गमनं स्मरणे स्मरणे ददाति मे मोदम् ॥

हीरकिरीटान् प्रावृतहैमक्षौमान् गुरून् विभूषाढ्यान् ।
याचे हस्तालम्बनमालम्बितभक्तवर्यपाणितलान् ॥

वन्दिजने स्तुतिमुखरे वन्दारुष्वधिकृतेषु पुरुषेषु ।
वाद्यचये कलनिनदे विभान्ति सिंहासने गुरूत्तंसाः ।
रचिता भुवनगुरूणामुचिता वसतिस्स्थलद्वये नियता ।
शृङ्गे महीधरेन्द्रे समकाठिन्ये मदन्तरङ्गे च ॥

No comments:

Post a Comment