*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(अष्टादशो भागः)
अयोध्यां प्रति सुमन्तस्य आगमनम्। (द्वितीयः खण्डः)
सम्पूर्णे राजप्रासादे हाहाकारः अभवत्। महाराजं जागरयन्ती महाराज्ञी कौशल्या अवदत् हे आर्यपुत्र! भवान् किमर्थं तूष्णीम् अस्ति? कथां किमर्थं न वदति? इदानीं तु भवता कैकेय्यै प्रदत्तं वरमपि पूर्णम् अभवत्, पुनः भवान् किमर्थं दुःखितः अस्ति?
महाराजः यदा चैतन्यं प्राप्नोत् तदा सः रामः, सीता, लक्ष्मणः च इत्येतेषां स्मरणं कुर्वन् विलापं करोति स्म। तस्मै सान्त्वनां प्रयच्छन् हस्तौ योजयित्वा मन्त्री सुमन्तः अब्रवीत् हे कृपानिधान! रामः भवन्तं प्रणम्य अवदत् - वयं सर्वे कुशलिनः स्मः इति। मातुः कौशल्यायाः कृते सन्देशम् अददात् यत् सा हृदयेन महाराजस्य सेवां कुर्यात्, मातरं कैकेयीं प्रति च द्वेषं न कुर्यात्। भरताय चापि सः पितुः आज्ञायाः पालनं कर्तुम् आदेशम् अददात्।
महाराजः दशरथः दीर्घश्वासं त्यजन् अब्रवीत् हे सुमन्त! यद् अभवत् तत्तु अभवदेव। तत् कश्चिदपि निवारयितुं न शक्नोति। अस्मिन् वयसि मम प्रियः पुत्रः रामः मत्तः पृथग् अभवत्। अस्मिन् संसारे एतस्मात् महत्तरं दुःखं किं भवितुम् अर्हति?
राज्ञी कौशल्या तदा वदति स्म, रामः, लक्ष्मणः, सीता च सर्वदा सुखपूर्वकं राजप्रासादे निवसन्ति स्म। विशेषतः सीता कथं वनस्य कष्टं सोढ्वा तत्र निवासं करोति? हे राजन्! भवान् हि तेभ्यः वनवासम् अददात्। भवादृशः निर्दयः अन्यः कश्चिदपि नास्ति। एतत् सर्वं भवान् केवलं कैकेयीभरतयोः सुखस्य कृते अकरोत्।
राज्ञ्याः कौशल्यायाः कठोरं वचनं श्रुत्वा महाराजस्य हृदयं विदीर्णम् अभवत्। तस्य नेत्रयोः अश्रूणि पूरयन् अवदत् हे कौशल्ये! त्वं मां वृथा मा द्यासीः। अहं तव पुरतः हस्तौ योजयामि। राज्ञः दशरथस्य दीनवचनं श्रुत्वा कौशल्यायाः हृदयं चूर्णम् अभवत्, सा च रोदिति स्म। पुनः सा हस्तौ योजयित्वा अब्रवीत् हे आर्यपुत्र! दुःखं मम बुद्धिम् अहरत्। मां क्षमताम्।
रामस्य इतः गमनस्य अद्य पञ्च रात्रयः अभवन्, परन्तु अहम् अनुभवामि यत् तेषां गमनस्य अद्य पञ्च वर्षाणि अभवन्। अतः अहं मम शिष्टाचारं विस्मृत्य अनर्गलप्रलापम् अकरवम्।
कौशल्यायाः वचनं श्रुत्वा पुनः राजा दशरथः अब्रवीत् हे कौशल्ये! यत् किमपि अभवत् तत् सर्वं मम कर्मणः फलम्। अहं त्वां सर्वं श्रावयामि, तत् शृणु।
*-प्रदीपः!*
No comments:
Post a Comment