*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(सप्तदशो भागः)
चित्रकूटे।
(द्वितीयः खण्डः)
महर्षिः वाल्मीकिः तेषां स्वागतं कुर्वन् अवदत् हे दशरथनन्दन! त्वं मह्यं दर्शनं प्रदाय मां कृतार्थम् अकरोः। यावत् तव इच्छा भवेत् तावत् त्वम् अस्मिन् आश्रमे निवासं कर्तुं शक्नुयाः। अत्रैव स्थित्वा त्वं वनवासस्य अवधिं पूरयित्वा गन्तुं शक्नुयाः, यतः एतत् स्थानं तव कृते सर्वथा योग्यं वर्तते।
आतिथ्यस्य कृते कृतज्ञतां ज्ञापयन् रामः ऋषिं वाल्मीकिम् अब्रवीत् महर्षे! निःसन्देहम् एतत् सुरम्यं वनम् अस्मभ्यं नितराम् अरोचत। परन्तु अत्र यदि वयं निवासं कुर्याम तर्हि भवतः तपस्यायां बाधा उत्पन्ना भवेत्। अतः अहं तथा नेच्छामि।
वयम् अत्रैव भवतः निकटे कुत्रचित् कुटीरं निर्माय निवासं कुर्याम।
पुनः रामः लक्ष्मणम् अब्रवीत् भ्रातः लक्ष्मण! त्वं वनात् दृढानि काष्ठानि कर्तयित्वा आनय। वयम् अस्य आश्रमस्य समीपे हि कुटीरस्य निर्माणं कृत्वा निवासं करिष्यामः।
रामचन्द्रस्य आदेशं प्राप्य लक्ष्मणः तत्क्षणं हि वनात् काष्ठानि कर्तयित्वा आनयत्। तैः काष्ठैः च एकस्य महतः सुन्दरकुटीरस्य निर्माणम् अकरोत्। सुविधायुक्तस्य, सुन्दर-कलापूर्णकुटीरस्य निर्माणाय रामः लक्ष्मणस्य भूरि भूरि प्रशंसाम् अकरोत्।
पुनः सः सीतया सह गृहप्रवेशस्य कृते यज्ञं कृत्वा अनन्तरं कुटीरं प्राविशत्। कुटीरस्य समीपे हि चित्रकूटपर्वतं स्पृशन्ती माल्यवती नदी प्रवाहिता भवति स्म। सरितायाः उभये पारे पर्वतानाम् अत्यन्तं सुन्दरी नयनाभिरामश्रेणिः आसीत्। सुन्दरं मनोमुग्धकारि प्राकृतिकं दृश्यं किञ्चित् कालाय सीतारामयोः अयोध्यात्यागस्य दुःखं व्यस्मारयत्।
विविधानां पक्षिणां मनोहारिस्वरं श्रुत्वा विविधानां वर्णानां च पुष्पैः आच्छादिताः लताः दृष्ट्वा तस्मिन् निर्जने वने हि राजप्रासादात् अधिकं सुखम् इति जनकनन्दिनी सीता अचिन्तयत्।
*प्रदीपः!*
No comments:
Post a Comment