Monday, July 25, 2022

Shiva pancakam - Sanskrit

श्रीशिवपञ्चकम् 
*************
(१)
कैलासौकाः कमनकमनः कोटिकन्दर्पकाशः
कण्ठेकालः करककरजः कम्रकंकालमालः।
क्रीडाक्लान्तः कलिकलुषकृत् कालकालः करालः
कान्ताकान्तः कलयतु कुलं नौमि तं कृत्तिकायम्।।
(२)
चूर्णीचूडं चिकुररुचिरं चर्मचेलं प्रचण्डं
चन्द्रापीडं चतुरचरितं चन्दनाचर्च्चिताङ्गम्।
चञ्चच्छूलं चपलचरणं चारुरूपं चरेशं
चण्डीनाथं चरचयचरं नौमि चण्डेश्वरं तम्।।
(३)
दक्षद्वेषं दलितदनुजं दग्धकन्दर्पदर्पं
दुर्भाग्यघ्नं द्विरदवदनप्राणदं दन्तिदण्डम्।
दुर्गादारं दरदमनकं दीनबन्धुं दयालुं
दैन्यं द्यन्तं दहननयनं नौमि तं देवदेवम्।।
(४)
नित्यानन्दं नटननिपुणं नन्ददं नन्दिनाथं
नागानन्दं नगपतिनतं नायकं नाकवन्द्यम्।
नीलप्राशं नगनिलयिनं निर्जरं निर्जराणां 
नग्नाकारं नरमुनिनुतं तं निलिम्पं नमामि।।
(५)
पांशुप्रेमी पटविरहितः पर्वती पावकाक्षः
पत्नीसक्तः प्रमथगणपः पार्वतीपुत्रपालः।
पापध्वंसी पतितजनताप्राणपाता पिनाकी
पृथ्वीपूज्यः प्रभुपशुपतिः पञ्चवक्त्रः प्रपातु।।
                     (व्रजकिशोरः)

No comments:

Post a Comment