*मृत्योः परं कर्म हि मनुष्यं स्मारयति।*
एकदा महाराजः शुद्धोदनः राज्यभ्रमणाय अगच्छत्। मार्गे तेन कश्चन वृद्धः दृष्टः यः वृक्षारोपणं करोति स्म।
महाराजः तम् अपृच्छत् भोः महोदय! भवान् किमर्थं वृक्षारोपणं करोति? किं भवान् एतस्मात् वृक्षात् फलं प्राप्स्यति?
वृद्धः अवदत् राजन्! एतस्माद् वृक्षाद् अहं फलं न प्राप्स्यामि यतः वृक्षः एधित्वा यदा फलं प्रदास्यति तदा अहम् इहलोके न स्थास्यामि।
परन्तु राजन्! अस्माकं उत्तराधिकारिणः एतस्मात् वृक्षात् स्वादिष्ठं फलं प्राप्स्यन्ति एव। अस्माकं पूर्वजैः आरोपितेभ्यः वृक्षेभ्यः यथा वयं फलानि प्राप्य तानि खादित्वा च तेषां स्मरणं कुर्मः तेभ्यश्च धन्यवादान् व्याहरामः तथैव अस्माकं उत्तराधिकारिणोऽपि अस्माकं स्मरणं करिष्यन्ति।
अर्थात् मम मृत्योः परमपि अस्मिन् मर्त्यलोके मम स्मरणं भविष्यति।
एवमेव मनुष्यस्तु किमपि नीत्वा नागच्छति न तु किमपि नीत्वा इतः गच्छति। अस्मिन् मर्त्यलोके मनुष्यस्य किमपि यदि अवशिष्टं स्यात् तर्हि तस्य कर्म हि केवलम्।
अतः हे राजन्! अहं प्रेम्णा वृक्षारोपणं करोमि येन मम मृत्योः परमपि मम स्मरणं भवेत्।
वृद्धस्य वचनं श्रुत्वा महाराजः अत्यन्तं सन्तुष्टः अभवत्, तम् अवदत् च हे पितः! भवतः इदं वचनं मम कृते अत्यन्तं प्रेरणादायकं वर्तते। इतः परम् अहमपि तथैव करिष्यामि इत्युक्त्वा महाराजः तस्मै वृद्धाय धन्यवादान् ज्ञापयित्वा ततः अगच्छत्।
*-प्रदीपनाथः, असमराज्यम्।*
No comments:
Post a Comment