Wednesday, February 2, 2022

Sanskrit poem on Sharad Ritu

शीतर्तुः
*****
तद्भावात् क्रमशो जडस्य गुरुता शीतं च संवर्धते
वायुः शैत्यगुणान्वितः प्रवहते मित्रं तदीयं नु किम्।
रात्रिस्तस्य बधूसमा हिमवती चन्द्रश्च तत्सोदर
स्तोयं पुत्र इव प्रभाति नितरां शीतस्य काले भुवि।।
                        (व्रजकिशोरः)

No comments:

Post a Comment