*अत्यधिकं चातुर्यं कदाचिद् हानये भवति।*
एकदा कश्चन पुरुषः द्वारं पिधाय गृहे उपविशन् आसीत्।
तदानीं साक्षात् मृत्युः तस्य गृहद्वारम् आगत्य तद् द्वारं नुन्नवान्।
सः पुरुषः तदा द्वारम् उद्घाट्य तं दृष्ट्वा अपृच्छत् भवान् कः इति!
मृत्युः स्वपरिचयं दत्त्वा तस्मै सूचिं दर्शयित्वा अवदत् इदानीं त्वं मया सह चल। यतः मम सूच्यां तव नाम सर्वेभ्यः उपरि अस्ति, अर्थात् तव नाम प्रथमम् अस्ति इति।
सः पुरुषः तदा भीतः सन् तं निवेदितवान् हे मृत्यो! अहम् इदानीं भवता साकं गन्तुं सज्जः न अभवम्। तावता भवान् मम गृहम् आगच्छतु। अहं भवते पानीयं दातुम् इच्छामि, तत् पिबतु इति।
मृत्युः अस्तु इत्युक्त्वा तस्य गृहं प्रविष्टवान्।
तदा सः पुरुषः पानीये जले निद्रायाः गुलिकां मिश्रयित्वा तस्मै मृत्यवे अददात्।
मृत्युः तत् पानीयं पीत्वा निद्राम् अकरोत्।
अत्रान्तरे च सः मृत्योः पार्श्वे स्थितायाः सूच्याः उपरि लिखितं तस्य नाम मार्जयित्वा सूच्याः अधः अलिखत्।
अनन्तरं यदा मृत्योः निद्राभङ्गः अभवत् तदा सः तं पुरुषम् अवदत् भोः! त्वं महान् असि, अतः त्वां प्रथमं न नेष्यामि अपितु सूच्याः अन्तिमे यस्य नाम अस्ति तं प्रथमं नेष्यामि इति।
मृत्योः वचनं श्रुत्वा सः पुरुषः रोदनम् आरब्धवान् विलापं च कुर्वन् अवदत् हा हन्त! मया किं कृतम् इति।
*-प्रदीपः!*
No comments:
Post a Comment