मृत्तिकया निर्मितं कलशं कश्चन पृच्छति भोः! त्वम् एवं किं पुण्यम् अकरोः यस्य प्रभावेण इदानीं मनुष्याणां शिरसि विराजसे?
कलशः वदति महोदय! यदा अहं मृत्तिकारूपेण आसं तदा कुम्भकारः तां मृत्तिकां बहुधा मोडित्वा मोडित्वा मम निर्माणम् अकरोत्।
तदनन्तरं सः माम् अग्निना अतापयत्।
एतावन्तम् अपमानं सोढ्वा हि इदानीं मनुष्याणां शिरसि विराजेऽहम्।
मनुष्यः स्वजीवने अपमानं विषवद् न मन्येत। अपितु तम् अपमानम् अमृतवद् मन्यताम्।
*-प्रदीपः!*
No comments:
Post a Comment