Sunday, January 2, 2022

New year- Sanskrit poem

नववर्षाशात्रयम्
*************
(१)
दृग्दृक्खाक्षतमे नवीनललिते संवत्सरे कामये
शान्तिप्रीतिविकाशवृद्धिरनिशं ते मन्दिरे राजताम्।
दुःखं मास्तु कदा प्रसन्नमनसा कालो प्रयातात् सखे !
त्वच्चित्तं परमेश्वरस्य चरणे नित्यं वरीवृत्यताम्।।
(२)
नेतारः शठतां कुकर्मनिचयं त्यक्त्वा भजन्तां हितं
मन्त्री नोऽपि भुनक्तु दिव्यमतिना हिंसा दूरं गच्छतु।
उत्कोचेन विना विभातु जनता कार्यालयं कर्मकृन्
निर्भीकाः प्रचलन्तु सर्ववनिता न्यायस्य रक्षा भवेत्।।
(३)
राष्ट्रस्योन्नतिसाधनाय सुदृढाः सर्वे भवन्तु ध्रुवं
देशे राजतु संहतिः प्रतिदिनं ख्यातोऽस्तु कीर्त्या क्षितौ।
लोकाः कर्मरता भवन्तु सततं शस्यैर्धरा भासतां
त्यक्त्वा क्रूरमतिं समस्तमनुजाः सौख्यं मुदा भुञ्जताम्।।
                       (व्रजकिशोरः)

No comments:

Post a Comment