*हरिभक्तः प्रह्लादः।*
प्रह्लादः दैत्यकुले जन्म अलभत। तस्य मातापितरौ दैत्यौ आस्ताम्। दैत्यकुले जन्म लब्ध्वा अपि सः भगवतः विष्णोः महान् भक्तः आसीत् इति कारणतः अद्यापि सः भगवतः श्रीविष्णोः महान् भक्तः इति कृत्वा तस्य नाम स्मर्यते।
प्रह्लादः यदा मातृगर्भे आसीत् तदा तस्य पितृव्यं हिरण्याक्षं भगवतः विष्णोः वराहावतारः अहन्।
तत्पश्चात् तस्य पिता हिरण्यकशिपुः अत्यन्तं कुपितः भूत्वा भगवतः ब्रह्मणः तपस्यां कर्तुम् अगच्छत्।
हिरण्यकशिपोः यावत् पर्यन्तं तपस्या पूर्णा नाभवत् तावत् पर्यन्तं प्रह्लादस्य माता कयाधुः नारदमुनेः आश्रमे आसीत्। अत्रान्तरे नारदमुनिः कयाधुं हरेः भजनं भगवतः श्रीविष्णोः कथां च विस्तरेण श्रावयति स्म।
नारदमुनेः तत्प्रवचनस्य सकारात्मकप्रभावः कयाधोः गर्भे स्थितस्य अजन्मप्रह्लादस्य उपरि भवति स्म।
तदेव कारणं यद् यथा प्रह्लादस्य जन्म अभवत् तदा सः महान् विष्णुभक्तः अभवत्।
अत्रान्तरे हिरण्यकशिपोः तपस्या समाप्ता अभवत्, भगवतः ब्रह्मणः सः त्रयाणां लोकानां मध्ये सर्वशक्तिशाली इत्यस्य वरं प्राप्य स्वराज्यं प्रत्यागच्छत्। पुनश्च सः त्रिषु लोकेषु स्वाधिकारम् अस्थापयत्, देवराजम् इन्द्रं च स्वसिंहासनाद् विच्युतम् अकारयत्।
हिरण्यकशिपुः तपस्यां समाप्य पुनः स्वराज्यं प्रत्यागच्छत् इति सूचनां प्राप्य कयाधुः प्रल्हादः च नारदमुनेः आशीर्वादं स्वीकृत्य स्वराज्यं प्रत्यागच्छताम्।
हिरण्यकशिपुः भगवतः ब्रह्मणः प्राप्तेन वरेण अतीव शक्तिशाली अभवत्। तदेव अहंकारकारणात् सः भगवन्तं श्रीविष्णुम् ईश्वरं न मन्यते स्म। आत्मानं हि ईश्वरः इति सः मन्यते स्म।
त्रिषु लोकेषु यः कोऽपि वा भगवतः विष्णोः पूजां करोति स्म तमेव हन्ति स्म सः। परन्तु यदा सः तस्य पुत्रः प्रह्लादः भगवतः श्रीविष्णोः महान् भक्तः इति अजानात् तदा सः क्रोधाग्नौ ज्वलति स्म।
सः हिरण्यकशिपुः स्वीयं पञ्चवर्षीयं लघुबालकमपि हन्तुं बहुवारं विविधैः कौशलैः प्रयत्नम् अकरोत् चेदपि सः सफलः नाभवत्।
भगवान् श्रीविष्णुः स्वयं सर्वदा तं रक्षति स्म।
एकदा यदा हिरण्यकशिपुः प्रह्लादस्य उपरि अत्याचारं कुर्वन्नासीत् तदा भगवान् विष्णुः अत्यन्तं कुपितः भूत्वा भयङ्करं रूपम् अधरत् , यद् नृसिंहावतारस्य रूपम् आसीत्।
भगवान् श्रीविष्णुः नृसिंहरूपं धृत्वा हि प्रह्लादस्य पितरं हिरण्यकशिपुम् अहन्।
तत्पश्चात् प्रह्लादः भगवतः नृसिंहस्य कोपं शमयति स्म।
भगवान् नृसिंहः अपि स्वीये परमभक्ते प्रह्लादे अतीव स्निह्यति स्म। अपिच प्रह्लादस्य पितुः सिंहासनं तस्मै अददात्।
भगवान् श्रीविष्णुः प्रह्लादे अतीव सन्तुष्टः भूत्वा त्रयाणां लोकानामपि राज्यम् अददात्।
*-प्रदीपनाथः, असमराज्यम्।*
No comments:
Post a Comment