हर हर कोरोणाकुलम्
*****************
(२)
कोरोणा वायुवीजा जनहननमना दानवी क्रूरनेत्रा
दृष्ट्वा स्वक्षीणशक्तिं जनयति कुटिला कन्यकां दुष्टडेल्टाम्।
तस्या मृत्योर्व्यथात्मा पुनरपि तनयो घोररूपस्तदीय
ओमिक्रान् घोरदैत्यो भ्रमति दिशि दिशि क्ष्मानरान् पाहि रुद्र ! ।।
(२)
आफ्रीकादेशजन्मा सहपवनरथः श्वासमार्गे प्रविश्य
विश्वं हन्तुं दुरात्मा प्रचलति मनुजैः सर्वदेशान् प्रचण्डः।
नानारोगस्वरूपो दलति जनगणं हैमलीलाबलेन
तद्भावं वीक्ष्य लोकास्तव भजनरताः पाहि शीघ्रं महेश !।।
(३)
मायावी कुत्र किं वा विधरति कुटिलो लोकदेहे कुरूपं
कदा वान्तिं ज्वरं वा हृदयमलिनतां मुण्डरोगं तनोति।
तैः कार्यै मृत्युदेशं नयति जनगणं छद्मवेशी कुकर्मा
तस्मान्नित्यं सुरक्षानलनयनरुचा सर्वविश्वं महेश !।।
(व्रजकिशोरः)
No comments:
Post a Comment