*स्वामिविवेकानन्देन सह प्रियनाथसिंहस्य कथोपकथनम्।*
प्रश्नः - हे स्वामिन्! अमेरिकादेशे भवतः कति शिष्याः अभवन्?
स्वामी - बहवः सन्ति।
प्रश्नः- द्वित्रसहस्रम् ?
स्वामी- ततोऽपि अधिकाः सन्ति।
प्रश्नः - किं ते सर्वे मन्त्रशिष्याः?
स्वामी - आम्।
प्रश्नः - तेभ्यः कान् मन्त्रान् अददात्? किं ते सर्वे मन्त्राः प्रणवयुक्ताः?
स्वामी - आम्। सर्वेभ्यः प्रणवयुक्तान् मन्त्रान् हि अददाम्।
प्रश्नः - श्रूयते यद् भारतम् अतिरिच्य इतराः सर्वे म्लेच्छदेशाः। प्रणवे तेषाम् अधिकारः नास्ति। तर्हि कथं भवान् तेभ्यः प्रणवयुक्तान् मन्त्रान् अददात्?
स्वामी - येभ्यः मन्त्रान् अददां ते ब्राह्मणाः न सन्ति इति भवान् कथं ज्ञातवान्?
प्रश्नः - भारतमतिरिच्य सर्वे तु म्लेच्छदेशाः सन्ति।
तेषु देशेषु च ब्राह्मणाः कुत्र?
स्वामी - अहं येभ्यः मन्त्रान् अददां ते सर्वे ब्राह्मणाः। तदपि सत्यं यत् प्रणवे केवलं ब्राह्मणानाम् अधिकारः भवति। परन्तु ब्राह्मणस्य पुत्रः ब्राह्मणः एव भवेत् इत्यस्य प्रत्याभूतिः नास्ति। भवितुमपि अर्हति।
बागबाजार इत्यस्य चक्रवर्तिनः भ्रातृजः मलाकर्षिणः कार्यं करोति।
सः मलस्य कण्डोलं शिरसि धृत्वा नयति। सः तु ब्राह्मणस्य पुत्रः।
प्रश्नः - अरे भ्रातः! इंलैण्ड-अमेरिकादिदेशेषु भवान् कुतः ब्राह्मणान् प्राप्तवान्?
स्वामी - ब्राह्मणजातिः ब्राह्मणस्य गुणः च इत्यनयोः भेदोऽस्ति।
अत्र सर्वे जात्या ब्राह्मणाः, तत्र सर्वे गुणेन ब्राह्मणाः।
सत्त्वम्, रजः, तमः च इत्यादयः त्रयः गुणाः भवन्ति, तथैव ब्राह्मणः, क्षत्रियः, वैश्यः शूद्रः च इत्येतेषां निर्दिष्टः गुणः भवति।
भारते तु क्षत्रियस्य गुणः लुप्तप्रायः। तथैव ब्राह्मणत्वगुणोऽपि लुप्तः अभवत्।
तेषु देशेषु अधुना सर्वे क्षत्रियत्वात् ब्राह्मणत्वं प्राप्नुवन्ति।
( अस्मिन् कथोपकथने प्रश्नकर्ता स्वामिनः बाल्यबन्धुः तस्य प्रतिवेशी च आसीत्। सः स्वामिनम् अत्यन्तं प्रीणाति स्म, श्रद्धामपि करोति स्म।)
संगृहीतः बाङ्ग्लासन्देशः।
*-प्रदीपः!*
No comments:
Post a Comment